________________
१२८ ] खवगसेढी
[ गाथा-६५ हीनत्वात् । तेन प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागतसकलपरमाणुस्थितसर्वरसाविमागतो द्वितीयापूर्वस्पर्धकप्रथमवर्गणागतसकलपरमाणुषु सकलरसाविभागा अनन्तबहुभागैरधिका भवन्ति । द्वितीयाऽपूर्वस्पर्धकप्रथमवर्गणागतसर्वपरमाणुस्थितसकलरसाविभागतस्तृतीयाऽपूर्वस्पर्धकप्रथमवर्गणासत्क-- समस्तपरमाणुषु रसाविभागा किञ्चिन्न्यूनद्विभागेनाधिका भवन्ति । ततश्चतुर्था-ऽपूर्वस्पर्धकप्रथमवर्गणागतसकलपरमाणुषु रसाविभागाः किञ्चिन्न्यूनत्रिभागेनाऽधिका भवन्ति । एवं संख्येयभागेनाऽधिकास्तावद्वक्तव्याः, यावञ्जधन्यपरित्तासंख्येयतमाऽपूर्वस्पर्धकं प्राप्यते । तदुपर्यसंख्येयभागेना-ऽधिकास्तावदनुगन्तव्याः, यावजघन्यपरित्तानन्ततमस्पर्धकं प्राप्यते । तत उपर्यनन्ततमभागेना. ऽधिकास्तावदवबोद्धव्याः, यावद् द्विचरमा-ऽपूर्वस्पर्धकप्रथमवर्गणागतसकलपरमाणुप्रतिबद्धरसाविभागतश्चरमाऽपूर्वस्पर्धकप्रथमवर्गणागतसमस्तपरमाणुषु सकलरसाविभागा अनन्ततमभागेन विशेषाधिकाः । उक्तं च कषायप्राभूतचूर्णी-"एवमणंतराणंतरेण गंतूण दुचरिमस्स फद्दयस्स आदिवग्गणाए अविभागपउिच्छेदादो चरिमस्स अपुव्वफद्दयस्स आदिवग्गणा विसेसाहिया अणंतभागेण ।" इति ।
अनुभागमाश्रित्य पूर्वापूर्वस्पर्धकानां स्थापना अपूर्वस्पर्धकानि
पूर्वस्पर्धकानि लोभस्य'०००००००००००००००००२००३ ४०००००००००००००००००००००००००००००००००००००००००५ मायायाः १०००००००००००००००२००३ ४०००००००००००००००००००००००००००००००००००००५ मानस्य १००००००००००००२००३ ४००००००००००००००००००००००००००००००५ क्रोधस्य
१००००००००२००३ ४०००००००००००००००००००००००००००००००००५
सङ्कतादीनां विवरणम्-- १ = लोभादीनामपूर्वस्पर्धकानां जघन्यवर्गणा। तत्र लोभाऽपूर्वस्पर्धकजघन्यवर्गणायां स्तोका रसाविभागाः।
मायाऽ- , ' विशेषाधिकाः । । मानस्या -5, , , " " " ।
क्रोधस्या-s , , , , , , । २ = लोभादीनां चरमाऽपूर्वस्पर्धकगतप्रथमवर्गणाप्रतिबद्धा रसाविभागा मिथस्तुल्या. । ३% , , , चरम , , ४%3D , पूर्वस्पर्धकगतप्रथमवर्गणाप्रतिबद्धा रसाविभागा मिथस्तुल्याः । ५= , चरमपूर्वस्पर्धकगतचरमवर्गणायां रसाविभागाः । तत्र मानस्य पूर्वस्पर्धकचरमवर्गणायां रसाविभागाः स्तोका भवन्ति, ततो विशेषाधिकाः क्रोधस्य पूर्वस्पर्धकचरमवर्गणायां भवन्ति, ततोऽपि मायायाः पूर्वस्पर्धकचरमवर्गणायां विशेषाधिका भवन्ति । ततोऽपि लोभस्य पूर्वस्पर्धकचरमवर्गणायां विशेषाधिका भवन्ति । अश्वकर्णकरणाद्धायां प्रथमेऽनुभागखरडे घातिते तु लोभस्य पूर्वस्पर्धकचरमवर्गणायां रसाविभागाः स्तोका भवन्ति, ततो मायायाः पूर्वस्पर्धकचरमवर्गणायामनन्तगुणा भवन्ति, ततो मानस्य पूर्व स्पर्धकचरमवर्गणायामनन्तगणा भवन्ति । ततः क्रोधस्य पूर्वस्पर्धकचरमवर्गणायामनन्तगुणा भवन्ति ॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org