________________
भपूर्वस्पर्धकवर्गणाविशेषनिरूपणम् ] अश्वकर्णकरणाधिकारः
[ १२७ इदं तु संक्षिप्तव्याख्यानम् । अथ विस्तरव्याख्यानेन प्ररूप्यते-इह तावदश्वकर्णकरणाद्धाप्रथमसमो संज्वलनचतुष्कस्याऽपूर्वस्पर्धकानि करोति । तत्र लोभस्य प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणासत्कैकपरमाणौ यावन्तो रसाविभागा भवन्ति, ततो द्वितीयापूर्वस्पर्धकप्रथमवर्गणासत्कैकपरमाणौ द्विगुणा रसाविभागा भवन्ति, प्रथमापूर्वस्पर्धकप्रथमवर्गणासत्कैकपरमाणौ स्थितेभ्यो रसाविभागेभ्यस्तृतीयापूर्वस्पर्धकप्रथमवर्गणासत्कैकपरमाणौ रसाविभागस्त्रिगुणा भवन्ति । एवं प्रथमाऽपूर्वस्पर्धकापेक्षया यतिसंख्यं यतिसंख्यमपूर्वस्पर्धकं भवेत, तत्संख्यागुणिताः प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागतरसाविभागास्ततिसंख्यस्य ततिसंख्यस्याऽपूर्वस्पर्धकस्य प्रथमवर्गणायां भवन्ति । तेन प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणातश्वरमाऽपूर्वस्पर्धकस्य प्रथमवर्गणागतरसाविभागा अनन्तगुणा भवन्ति, अपूर्वस्पर्धकानामेकद्विगुणहानिस्थितस्पर्धकसत्काऽसंख्येयभागमात्रत्वेनाऽभव्यानन्तगुण-सिद्धानन्तभागमात्रत्वात् । यदुक्तं कषायप्राभूतचूर्णी-"जाणि पढमसमये अपुव्वफह्याणि णिव्वत्तिदाणि, तत्थ पढमस्स फद्दयस्स आदिवग्गणा थोवा। चरिमस्स अपुव्वफद्दयस्स आदिवग्गणा अणंतगुणा ।" इति । चरमाऽपूर्वस्पर्धकप्रथमवर्गणातः प्रथमपूर्वस्पर्धकप्रथमवर्गणागतरसाविभागा अनन्तगुणा भवन्तीत्यनुक्तसिद्धम् , प्रथमपूर्वस्पर्धकप्रथमवर्गणातोऽनन्तगुणहीनरसतामापाद्य-ऽपूर्वस्पर्धकानां निवृत्तेः। उक्तं च कषायप्राभृतचूर्णी"पुव्वफद्दयस्सादिवग्गणा अणंतगुणा।” इति ।
तथा प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागतरसाविभागतो द्वितीयाऽपूर्वस्पर्धकप्रथमवर्गणायां रसाविभागा द्विगुणा भवन्ति । द्वितीयाऽपूर्वस्पर्धकप्रथमवर्गणातस्तृतीयापूर्वस्पर्धकाथमवर्गणायां रसाविभागा एकद्विभागेनाऽधिका भवन्ति । तृतीयाऽपूर्वस्पर्धकप्रथमवर्गणातश्चतुर्यापूर्वस्पर्धकप्रथमवर्गणायां रसाविभागास्त्रिभागेनाऽधिका भवन्ति । ततोऽपि पञ्चमाऽपूर्वस्पर्धकप्रथमवर्गणायां रसाविभागाश्चतुर्भागेनाधिका भवन्ति । एवं यतिसंख्यमपूर्वस्पर्धकं चिन्त्यते, एकोनतत्संख्यामागेनाधिका रसाविभागास्तत्पूर्ववर्त्यपूर्वस्पर्धकापेक्षया वक्तव्याः । तेन जघन्यपरित्ताऽसंख्येयतमाऽपूर्वस्पर्धकस्य प्रथमवर्गणायां रसाविभागा उत्कृष्टसंख्येयभागेनाऽधिका भवन्ति, तदुपरितनाऽपूर्वस्पर्धकानां प्रथमवर्गणायां पूर्वपूर्वतोऽसंख्येयभागेनाधिकास्तावद्वक्तव्याः, यावजघन्यपरित्ताऽनन्ततमस्पर्धक प्राप्यते । तत उपरि पूर्वपूर्वत उत्तरोत्तराऽपूर्वस्पर्धकस्य प्रथमवर्गणायां रसाविभागा अनन्ततमभागेन वृद्धा भवन्ति । इदं तु प्रथमवर्गणागतैकपरमाणुमाश्रित्य प्रोक्तम् । ___ अथ प्रथमवर्गणागतसकलपरमाणूनाश्रित्याऽभिधीयते-प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागतसकलपरमाणुस्थितसर्वरसाविभागतो द्वितीयाऽपूर्वस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुगतसकलरसाविभागा द्विगुणा न भवन्ति, किन्तु किचिन्न्यूनद्विगुणा भवन्ति, प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागतसकलपरमाणुतो द्वितीयाऽपूर्वस्पर्धकप्रथमवर्गणास्थितसकलपरमाणूनामनन्तमागेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org