________________
१२६ ]
खवगसेढी
[ गाथा-६५ चूर्यक्षराणामिदं व्याख्यानम्-अश्वकर्णकरणाद्धाप्रथमसमये यावत्प्रदेशाग्रमपकर्षति, तेन प्रमाणेन कर्मण्यपह्रियमाणे यो-ऽपहारकालो गच्छेत, सो-ऽपहारकाल उत्कर्षणापकर्षणभागहारनामा स्तोको भवति । ततो निर्वय॑मानैरपूर्वस्पर्धकैरपहियमाणे एकप्रदेशगुणहानिस्थानान्तरे यो-ऽपहारकालो व्यतिक्रामेत्, स पल्योपमा-ऽसंख्ययभागप्रमितो भवनप्यसंख्येयगुणो भवति । इदमुक्तं भवति–प्रथमस्पर्धकप्रथमवर्गणातः प्रभृत्युत्तरोत्तरवर्गणायां परमाणवो विशेषहीनक्रमेण तिष्ठन्ति । तत्र प्रथमस्पर्धकप्रथमवर्गणातो-ऽभव्यानन्तगुण-सिद्धानन्तभागमात्रेषु स्पर्धकेषु गतेषु प्रथमस्पर्धकादिमवर्गणा-ऽपेक्षया द्विगुणहीना भवन्ति, ततः पुनस्तावन्मात्रेषु स्पर्धकेषु व्रजितेषु प्रदेशा द्विगुणहीना भवन्ति, पुनस्तावन्मात्रेषु स्पर्धकेषु गतेषु प्रदेशा द्विगुणहीना भवन्ति । तत्र द्वयोर्द्विगुणहान्योरपान्तराले यत् स्पर्धकजातं भवति, तद् एकप्रदेशगुणहानिस्थानान्तरमुच्यते, यदस्माभिर्द्वि गुणहानिरिति प्राक् परिभाषितम् । अश्वकणकरणाद्धाप्रथमसमयभाव्युत्कर्षणापकर्षणभागहारतो-ऽपूर्वस्पर्धकैरपह्रियमाणानामेकप्रदेशगुणहानिस्थानान्तरगतस्पर्धकानामपहारकालः पल्योपमा-ऽसंख्येयभागमात्रो भवन्नप्यसंख्येयगुणो भवति, तथा चासौ पल्योपमप्रथमवर्गमूलस्याऽसंख्येयभागप्रमाणो भवतीति कृत्वा चूर्णिकारैरपूर्वस्पर्धकैरेकप्रदेशगुणहानिस्थानान्तरस्याऽपहारकालतः पन्योपमप्रथमवर्गमूलमसंख्येयगुणं भवतीत्युक्तम् ।
इत्थमश्वकर्णकरणाद्धाप्रथमसमये उत्कर्षणापकर्षणभागहारतोऽसंख्येयगुणेन पल्योपमप्रथमवर्गमूलस्य चासंख्येयभागप्रमितेन पल्योपमाऽसंख्येयभागलक्षणभागहारेणैकद्विगुणहानिस्थितस्पर्धकानि विभज्यैकभागमितान्यपूर्वस्पर्धकानि करोति ।।
सम्प्रति रसाविभागानाश्रित्या-ऽपूर्वस्पर्धकानां प्रथमवर्गणां दर्शयति-'कमसो' इत्यादि, 'क्रमशः' क्रमेण 'अपुव्वगाण'त्ति प्राकृतत्वात् स्वार्थिकः कप्रत्ययः, 'अपूर्वेषां' संज्वलनचतुष्कस्याऽपूर्वस्पर्धकानां 'आदिवर्गणा' प्रथमवर्गणा विशेषाधिका 'अस्ति' भवति, चकारः पादपूत्यै । इदमुक्तं भवति-संज्वलनलोभस्य प्रथमा-ऽपूर्वस्पर्धकप्रथमवर्गणागतसकलरसाविभागतो द्वितीयाऽपूर्वस्पर्धकप्रथमवर्गणाप्रतिबद्धसकलरसाविभागा विशेषाधिका भवन्ति । ततस्तृतीयाऽपूर्वस्पर्धकप्रथमवर्गणास्थितसकलरसाविभागा विशेषाधिका भवन्ति । एवं तावद्वक्तव्यम्, यावच्चरमाऽपूर्वस्पर्धकप्रथमवर्गणा । यथा लोभस्या-ऽपूर्वस्पर्धकानां प्रथमवर्गणागतरसाविभागाः प्ररूपिताः, तथैव मायामानक्रोधानामपि प्रथमवर्गणागतरसाविभागा वक्तव्याः।
卐उक्त च जयधवलाकारैरपि-"एदेण सुत्तेण ओकड्डुक्कड्डणभागहारादो असंखेजगुणेण पलिदोवमपढमवग्गमूलादो च असंखेबगुणहीणेण पलिदो० असंखे० भागेण एगपदेसगुणहाणिट्ठाणंतरफद्दएसु ओवट्टिदेसु जं भागलद्धं, तत्तियमेत्ताणि कोहादिसंजलणाणमपुव्वफद्दयाणि होति त्ति एसो अत्थविसेसो जाणाविदो।" इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org