________________
अपूर्वस्पर्धक प्रथम वर्गणारसाविभागा ] अश्वकर्णकरणाधिकारः
१३१
रसाविभागा शेषत्वेन प्राप्यन्ते । तैर्मानस्य प्रथमाऽपूर्वस्पर्धक प्रथमवर्गणागतरसा विभागा विभक्तव्याः । विभक्तेषु च यद् लभ्यते, तावन्मात्राणि क्रोधस्याऽपूर्वस्पर्धकानि, ततः साधिकानि मानस्य, ततः साधिकानि मायायाः, ततः साधिकानि लोभस्या- पूर्वस्पर्धकानि गत्वा प्राप्यमाणाऽपूर्वस्पर्धक प्रथमवर्गणायां रसाऽविभागा मिथः समाना भवन्ति । पुनस्तावन्ति स्पर्धकानि व्यतिक्रम्य प्राप्यमाणाऽपूर्वस्पर्धक प्रथम वर्गणायां रसाविभागा मिथस्तुल्या भवन्ति । एवमनन्तान्य पूर्वस्पर्धका नि लभ्यन्ते येषां प्रथमवर्गणायां रसाविभागा मिथः सदृशा भवन्ति ।
1
असत्कल्पनया कल्प्यन्तां संज्वलनचतुष्कस्य प्रत्येकं चरमा पूर्व स्पधक प्रथमवर्गणायां रसाविभागा द्वाचत्वारिंशच्छतानि ( ४२०० ) मिथस्तुल्यत्वात् । कल्प्यन्तां क्रोधस्याऽपूर्वस्पर्धका पञ्चविंशतिः (२५) मानस्य त्रिंशत् (३०), मायायाः पञ्चत्रिंशत् (३५), लोभस्य चत्वारिंशत् (४०), क्रोधादीनां क्रमेणापूर्वस्पर्धकानां विशेषाधिकत्वात् । अथ द्वाचत्वारिंशच्छतानि स्वस्वाऽपूर्वस्पर्धकराशिना खण्ड्यन्ते, तदा क्रोधस्य प्रथमापूर्वस्पर्धक प्रथमवर्गणायां रसाविभागा अष्टाषष्ट्यधिकशतं (४२०० --- २५ = १६८),मानस्य प्रथमा पूर्वस्पर्धप्रथमवर्गणायां रसाविभागाश्चत्वारिंशदुत्तरशतं (४२००÷३० = १४० ) मायाया: प्रथमाऽपूर्वस्पर्धक प्रथमवर्गणायां रसाविभागा विंशत्यधिकं शतं(४२००÷३५ = १२०) लोभस्य प्रथमा- पूर्वस्पर्धकप्रथमवर्गणायां रसाविभागाः पञ्चाधिकशतं (४२००÷४० = १०५) प्राप्यन्ते । एवं क्रोधादीनां प्रथमाऽपूर्वस्पर्धकजघन्यवर्गणासु रसाविभागास्तुल्या न भवन्ति ।
For at प्रथमस्पर्धकप्रथमवर्गणागतेभ्योऽष्टाषष्ट्यधिकशतरसाविभागेभ्यो मानस्य प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागत चत्वारिंशदधिकशतरसा विभागेषु विशोधितेष्वष्टाविंशती रसाविभागा (२८) अवशिष्यन्ते, तैर्मानप्रथमाऽपूर्वस्पर्धकप्रथमवर्गण । गतचत्वारिंशदुत्तरशतरसा विभागा विभ ज्यन्ते, तदा पञ्च प्राप्यन्ते, तेन क्रोधस्य पञ्चा - ऽपूर्वस्पर्धकानि, मानस्य पट, मायायाः सप्त, लोभस्य त्वष्टौ गत्वा प्रथमवर्गणायां रसाविभागाः परस्परं तुल्या भवन्ति । तद्यथा- क्रोधस्य पञ्चमाऽपूर्वस्पर्धकप्रथमवर्गणायां रसाविभागाश्चत्वारिंशदधिकाष्टशतानि (१६८ *५ - ८४०), मानस्य षष्ठाऽपूर्वस्पर्धकप्रथमवर्गणायामपि रसाविभागाश्चत्वारिंशदधिकाष्टशतानि (१४०×६ = ८४०), मायायाः सप्तमाऽपूर्वस्पर्धक प्रथमवर्गणायामपि रसाविभागाश्चत्वारिंशदधिकाष्टशतानि (१२०४७ = ८४०), लोभस्याष्टमाऽपूर्वस्पर्धकप्रथमवर्गणायामपि रसाविभागाचत्वारिंशदधिकाष्टशतानि ( १०५४८ =८४०) । पुनरेतावत्स्वपूर्वस्पर्धकेषु गतेषु प्रथमवर्गणायां रसाविभागा मिथस्तुल्या भवन्ति । तद्यथा - क्रोधस्य दशमा पूर्वग्पर्धकस्य प्रथमवर्गणायां रसाविभागा श्रशीत्युत्तर षोडशशती (१६८×१०=१६८०), मानस्य द्वादशा- पूर्वस्पर्धकस्य प्रथमवर्गणायामपि रसाविभागा प्रशीत्युतरषोडशशती (१४० × १२ = १६८०) । मायायाः पञ्चदशा- पूर्व स्पर्धकस्याद्यवर्गणायामपि रसाविभागा अशीत्युत्तरषोडशशती (१२०×१४ = १६८०) । लोभस्य विंशतितमाऽपूर्वस्पर्धकस्य प्रथमवर्गणायामपि रसाविभागा अशीत्युत्तरषोडशशती (१०५४१६ - १६८० ) । एवमग्रे ऽपि ज्ञातव्यम् ॥ ६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org