SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १२४ ] ... खवगसेढी [गाथा-६४ चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (१६) सनः सातवेदनीयस्योत्कृष्ट स्पर्धकचरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । तत्र वैक्रियशरीरादीनां पञ्चप्रकृतीनामुत्कृष्टानुभागः क्षपकेणाऽपूर्वकरणगुणस्थानके सञ्चितः । सातवेदनीय-यशःकीत्त्युच्चैर्गोत्राणामुत्कृष्टानुभागं सूक्ष्मसम्परायचरमसमये क्षपकः संचेष्यति । शेषाणामुत्कृष्टानुभागं यथागमं संसारा-ऽवस्थायां संचिनोति जीवः । क्षपकस्य सत्कर्मणि दैवनारकतैर्यगायुष्काणां तु सर्वथा-ऽभावः प्राग् दर्शित एव । तदेवं प्रसङ्गतो घात्यघातिकर्मणां रसस्पर्धकानि विवर्णितानि । सम्प्रति प्रकृतमनुसरामःएवं विधेषु पूर्वस्पर्धकेषु संज्वलनचतुष्कस्य यानि पूर्वस्पर्धकानि, तेभ्योऽसंख्येयभागमितं प्रदेशाग्रं गृहीत्वा स्वस्त्रजघन्यपूर्वस्पर्धकगतप्रथमवर्गणातो-ऽनन्तगुणहीनानुभागकान्यनन्तान्यपूर्वस्पर्धकान्यश्वकर्णकरणाद्धाप्रथमसमये निर्वतयति । उक्तं च कषायप्राभूतचूर्णी--"तदो चदुण्हं संजलणाणमपुव्वफद्दयाई णाम करेदि। ताणि कधं करेदि ? लोभस्स ताव लोहसंजलणस्स पुव्वफद्दएहिंतो पदेसग्गस्स असंखेजदिभागं घेत्तूण पढमस्स देसघादिफद्दयस्य हेट्ठा अणंतभागे अण्णाणि अपुव्वफद्दयाणि णिव्वत्तयदि ।xxxxxx xxxxx जहा लोभस्स अपुवफद्दयाणि परूविदाणि पढमसमए, तहा मायाए माणस्स कोधस्स परूवेयव्वाणि ।” एवं शतकचूर्णावपि सो पुव्वफड्डगाणं हेहा अण्णाणि फड्डगाइं तु । पकरेइ अपुव्वाई अणंतगुणहीयमाणाई॥१॥ न चात्राऽश्वकर्णकरणाद्धायां पुरुषवेदस्य समयोनाऽवलिकाद्वयवद्धनूतनाऽनुभागसंभवात् पुरुषवेदस्या-ऽपूर्वस्पर्धकानि कुतो न निर्वतयति ? इति वाच्यम् , कषायामाभृतचूर्णिकारैः सप्ततिकाचूर्णिकृद्भिश्च संज्वलनचतुष्कस्यैवा- पूर्वस्पर्धकानामुपदिष्टत्वात् । तथा-चाऽत्र कषायप्राभृतचूर्णि:-"तदो चदुण्हं संजलणाणमपुव्वफद्दयाइणाम करेदि ।" इति । तथैव सप्ततिकाचूणि:-"तत्थ अस्सकण्णकरणाडाए वद्यमाणो अणंताई समए समए अपुव्वफडगाईचउण्हं संजलणाणं करोति ।" इति । पुरुषवेदस्य त्वपूर्वस्पर्धकनिवृत्तिं विना समयोनाऽवलिकाद्वयेन बद्धनूतनाऽनुभागं बन्धावलिकाऽपगमेऽश्वकर्णकरणाद्धायां तावता कालेन संज्वलनक्रोधे संक्रमयति ॥६३॥ नन्वश्वकर्णकरणाद्धाप्रथमसमयेऽपूर्वस्पर्धकानि कति निवर्तयति ? इत्यत आह ताणि अपुवाणिगदुगुणहाणिफड्डाणऽसंखइमभागो। एत्थ पुण भागहारो अोकड्डणश्रो असंखगुणो॥६४॥ तान्यपूर्वाण्येकद्विगुणहानिस्पर्धकानामसंख्यतमभागः । अत्र पुनर्भागहारोऽपकर्षणतो-ऽसंख्यगुणः ।।६४।। इति पदसंस्कारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy