________________
घात्यघातिर साल्पबहुत्वम् ]
श्वकर्णकरणाधिकारः
चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । ( ४१ ) ततोऽनन्तानुबन्धिक्रोधस्योत्कृष्टस्पर्धकचरमवर्गणायां रसाविभागा विशेषाधिका भवन्ति । (४२) ततोऽनन्तानुबन्धिमायाया उत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा विशेषाधिका भवन्ति । (४३) ततोऽनन्तानुबन्धिलो मस्योत्कृष्टस्पर्धक चरम वर्गणायां रसाविभागा विशेषाधिका भवन्ति । ( ४४-४५-४६ ) ततः केवलज्ञानावरणकेवलदर्शनावरणवीर्यान्तरायाणामुत्कृष्ट स्पर्धक चरम वर्गणायां रसाविभागा अनन्तगुणा भवन्ति, स्वस्थाने तु परस्परं तुल्याः । (४७) ततो मिथ्यात्वमोहनीयस्योत्कृष्टस्पर्धक चरमवर्गणायां रसाविभाग अनन्तगुणा भवन्ति ।
अनन्तरोक्तसप्तचत्वारिंशत्प्रकृतितो ऽनिवृत्तिकरणस्थक्षपकस्य सत्कर्मणि संज्वलनचतुष्कं विना द्वादशकपाया दर्शन त्रिकं च न विद्यन्ते, प्रागेव क्षपितत्वात् । तेन तेषां रसस्पर्धकमपि सत्कर्मणि न भवति । शेषाणां द्वात्रिंशत्प्रकृतीनां क्षपकस्य सत्कर्मण्यनुत्कृष्टस्पर्धकमेव विद्यते, घातिकर्मणामुत्कृष्टानुभागस्य मिथ्यात्वगुणस्थान के एवोपलम्भात् ।
1
[ १२३
सम्प्रत्यघातिकर्मणां रसस्पर्धकानि प्ररूप्यन्ते - अघातिप्रकृतीनां जघन्यरसस्पर्धकात् प्रभृति चतुःस्थानकानु भागविशिष्टोत्कृष्टरसस्पर्धकपर्यवसानानि रसस्पर्धकानि वाच्या ि जघन्यरसस्पर्धकस्य प्रथमवर्गणायां रसाविभागाः परस्परं समाना अवतिष्ठन्ते, उत्कृष्ट स्पर्धक - चरमवर्गणायां तु विषमाः । तद्यथा - ( १ ) तिर्यगायुष उत्कृष्टस्पर्धकस्य चरमवर्गणायां रसाविभागाः स्तोका भवन्ति । (२) ततो मनुष्यायुष्कस्योत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (३) ततो नरकायुष उत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (४) ततो देवायुष उत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (५) ततस्तियं - ग्गतेरुत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति (६) ततो नरकगतेरुत्कृष्ट स्पर्धक - चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । ( ७-८ ) ततो ऽयशः कीर्त्तिनीचैर्गोत्रयोरुत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति, स्वस्थाने मिथस्तुल्याः । ( ६ ) ततो- सातवेदनीयस्योत्कृष्ट स्पर्धक चरम वर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (१०) तत औदारिकशरीरनामकर्मण उत्कृष्ट स्पर्धकस्य चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (११) ततो मनुष्यगतेरुत्कृष्टस्पर्धकचरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । ( १२ ) ततो वैक्रियशरीरनामकर्मण उत्कृष्ट स्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (१३) तत आहारकशरीर नामकर्मण उत्कृष्टस्पर्धक चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (१४) ततस्तैजसशरीरनामकर्मण उत्कृष्टस्पर्धकचरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (१५) ततः कार्मणशरीरनामकर्मण उत्कृष्टचरमस्पर्धकवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (१६) ततो देवगतेरुत्कृष्टस्पर्धक चरमवर्गणायां रसा विभागा अनन्तगुणा भवन्ति । (१७-१८) ततो यशःकीयु च्चैर्गोत्रयोरुत्कृष्टस्पर्धकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org