SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १२० ] 'खवगढी [ गाथा - ६३. नन्तरसस्पर्धकानि द्विस्थानका - ऽनुभागकानि भवन्ति । पुनस्तेषामुपर्यनन्तानि रसस्पर्धकानि त्रिस्थानकाऽनुभागकानि विद्यन्ते, भूयस्तेषामुपर्युत्कृष्टरसस्पर्धक पर्यन्तान्यनन्तानि रसस्पर्धकान चतुःस्थानकाs-नुभागकानि तिष्ठन्ति । जघन्यरसस्पर्धकात् प्रभृति सर्वाण्येकस्थानकाऽनुभागकानि द्विस्थानका अनुभागकानां च रसस्पर्धकानामाद्याऽनन्ततमभागकल्पानि रसस्पर्धकानि देशघातीनि वक्तव्यानि । तेषां सर्वोत्कृष्टं रसस्पर्धकमुत्कृष्टं देशघातिरसस्पर्धकमुच्यते । ततो द्विस्थानका - Sनुभागकानां रसस्पर्धकानामनन्ततमभागस्योपरि प्रथमं जघन्य सर्वघातिरसस्पर्धकं वक्तव्यम् | ततः परं शेषद्विस्थानका - ऽनुभागकानि स्पर्धकानि त्रिचतुःस्थानाऽनुभागविशिष्टानि च सर्वाणि रसस्पर्धकानि सर्वघातीनि भणितव्यानि । तेषां सर्वोत्कृष्टं रसस्पर्धकमुत्कृष्टसर्वघातिस्पर्धकमुच्यते । न्यास : एकस्थानकानुभागकानि १०००००००००००००० १ = सर्वजघन्य देशघातिस्पर्धकम् । २ = सर्वात्कृष्टं देशघातिस्पर्धकम् । द्विस्थाननुभागकानि 1000R 1030occo I त्रिस्थानानुभागकानि चतुःस्थानानुभागकानि ooooocor | ३ = सर्वजघन्यं सर्वघातिस्पर्धकम् । ४ = सर्वोत्कृष्टं सर्वघातिस्पर्धकम् । Jain Education International ०००००००० । घातिप्रकृतयो द्विविधा भवन्ति, देशघातिसर्वघातिभेदात् । सत्कर्मणि सम्यक्त्वमोहनीयवर्जदेशघातिप्रकृतीनां रसस्पर्धकानि देशघातीनि सर्वघातीनि च भवन्ति, सम्यकत्वमोहनीयस्य तु देशघातीन्येव, सर्वघातिप्रकृतीनां पुना रसस्पर्धकानि सर्वघातीन्येव भवन्ति । अथ देशघातिप्रकृतीनां रसस्पर्धकानि विविच्यन्ते - केवलज्ञानावरणं वर्जयित्वा शेषज्ञानावरणचतुष्कं चक्षुरचक्षुरवधिदर्शनावरणलक्षणं दर्शनावरणत्रिकं संज्वलनचतुष्कं नवनोकपायाः सम्यक्त्वमोहनीयं पञ्चान्तराया इति षड्विंशतिदेशघातिप्रकृतीनां जघन्यरसस्पर्धकस्य प्रथमवर्गणायां प्रत्येकस्मिन् परमाणौ रसाऽविभागा मिथस्तुल्या भवन्ति । इदुमुक्तं भवति - अक्षपकजीवमाश्रित्य मतिज्ञानावरणस्य जघन्यस्पर्धकसत्कप्रथमवर्गणागतैकैकपरमाणौ यावन्तो रसाऽविभागा भवन्ति, तावन्त एव रसाऽविभागाश्चतुर्दर्शनावरणस्य जघन्यस्पर्धक सत्कप्रथमवर्गणागतैकैकपरमाणौ विद्यन्ते । एवं सर्वासां देशघातिप्रकृतीनां परस्परं वक्तव्याः । उक्तं च कषायप्राभृतचूर्णौ“सव्वस्स अक्खवगस्स सव्वकम्माणं देसघादिफद्दयाणमादिवग्गणा तुल्ला ।" इति । एवंविधाद् देशघातिप्रकृतीनां जघन्यरसस्पर्धकात् प्रभृत्युत्कृष्टदेशघातिरसस्पर्धकं यावद् रसस्पर्धकान देशघातीनि वक्तव्यानि । तेषामुपरि सम्यक्त्वमोहनीयवर्जशेषपञ्चविंशतिदेशघातिप्रकृतीनां सर्वाणि रसस्पर्धकानि सर्वघातीन्यवतिष्ठन्ते । सम्यकत्वमोहनीयस्य तु सर्वोत्कृष्टदेशघातिरसस्पर्धकात् परं रसस्पर्धकं न विद्यते, तस्य सर्वधातिरसस्पर्धका-ऽभावात् । For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy