________________
पूर्वस्पर्धकगणितविभागः ] अश्वकर्णकरणाधिकारः
[ ११६ तदेवं द्वितीयस्पर्धकप्रथमवर्गणायां सर्वपरमाणुस्थितसकलरसाविभागा अष्टचत्वारिंशल्लक्षोत्तरचतुष्कोटिमिताः, तृतीयस्पर्धकादिवर्गणायां पुनः षट्सप्ततिलक्षाधिकपञ्चकोटिप्रमाणा लभ्यन्ते । न चैतदसिद्धम्,त्रैराशिकविधिना-ऽपि यथोक्तमानोपलब्धेः,तथाहि-द्वितीयस्पर्धकादिवर्गणासत्कैकपरमाणौ ढे लक्षे (२०००००) रसाविभागाः परिकल्पिताः, परमाणवः पुनश्चतुर्विशत्युत्तरे द्वे शते (२२४)। यदि एकपरमाणौ द्वे लक्षे रसाविभागा भवन्ति, तर्हि चतुर्विंशत्यधिकद्विशतप्रमाणेषु परमाणुषु कियन्तो भवेयुरिति त्रैराशिकेनाऽष्टाचत्वारिंल्लक्षाधिकचतुष्कोटिमिता रसाविभागा लभ्यन्ते । एवं तृतीयस्पर्धकप्रथवर्गणासत्कसकलपरमाणुस्थितनिखिलरसाविभागास्त्रैराशिकविधिना भणितव्याः । त्रैराशिककरणसूत्रं च सप्तविंशतितमगाथायाष्टीकायां निरूपितम् । न्यासः-प्रमाणम् | प्रमाण फलम् । इच्छा । इच्छाफलम्
२००००० | २२४ । ४४८००००० लब्धा द्वितीयस्पर्धकाद्यवर्गणायाम् . १ । ३००००० । १२ । ५७६००००० लब्धास्तृतीयस्पर्धकाद्यवर्गणायाम्
एवं पूर्वोक्तव्याप्त्या चतुर्थादिस्पर्धकप्रथमवर्गणायां सकलपरमाणुस्थितसर्वरसाविभागाः प्रथमस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुस्थितसर्वरसाविभागतः किञ्चिन्न्यूनाश्चतुरादिगुणाः साध्याः ।
तथा (१) यतिसंख्यं स्पर्धकमुद्दिष्टं भवति, एकोनतत्संख्याविभक्ततत्संख्यागुणा रसाविभागा उद्दिष्टस्पर्धकस्य प्रथमवर्गणायां तत्प्राक्तनस्पर्धकप्रथमवर्गणातो भवन्ति, (२) प्रथमस्पर्धकतः प्रभृति प्रथमद्विगुणहानौ विवक्षितस्पर्धकापेक्षप्राक्तनस्पर्धकं यतितमं भवति, तत्स्पर्धकप्रथमवर्गणागतरसाविभागानां ततिभागेना-ऽधिका रसाविभागा विवक्षितस्पर्धकस्य प्रथमवर्गणायां पूर्ववर्तिस्पर्धकापेक्षया भवन्ति, इति यद्व्याप्तिद्वयं प्रागुक्तम् , तत्रापि विवक्षितस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुस्थितसर्वरसाविभागाः किश्चिन्न्यूनाः सूक्ष्मगणितानुसारेण वाच्याः, न्यूनप्रमाणं चा-ऽनन्तरोक्तविधिनैव साध्यम् । प्रथमव्याप्तिमाश्रित्य स्थापनाविवक्षितस्पर्धकादिवर्गणागतसकलरसाविभागास्तत्प्राक्तनस्पर्धकादिवर्गणागतसकलरसाविभागतः यतितमं स्पर्धक, तत्संख्या
_ रूपोनतत्संख्या-गुणाः- बx (अxस)} द्वितीयव्याप्तिमाश्रित्य स्थापनाविवक्षितस्पर्धकप्रथमवर्गणायां सकलरसाविभागास्तत्प्राक्तनस्पर्थकादिवर्गणागतसकलरसविभागतः - पूर्वस्पर्षकप्रथमवर्गणागतैकपरमाणुस्थितरसाविभागाः इत्येतैरधिकाः- बx(4xस)
यतितम पूर्वस्पर्धकं तत्संख्या
समाप्तो गणितविभागः। सम्प्रति घातिप्रकृतीराश्रित्या-ऽनुभागस्पर्धकेष्ठ देशघात्यादिरसप्ररूपणाजघन्यरसस्पर्धकादारभ्याऽनन्तरसस्पर्धकान्येकस्थानकाऽनुभागविशिष्टानि भवन्ति । तेषामुपर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org