________________
सर्वघातिस्पर्धकनिरूपणम् ]
[ १२१
अथ सर्वघातिप्रकृतीनां रसस्पर्धकानि विविच्यन्ते — सत्कर्मा-पेक्षया केवलज्ञानावरणं केवलदर्शनावरणं निद्रापञ्चकं संज्वलनवर्जद्वादशकषाया मिश्रमोहनीयं मिथ्यात्वमोहनीयं चेत्येकविंशतिप्रकृतीनां देशघातीनि रसस्पर्धकानि सत्कर्मणि न विद्यन्ते, अपितु सर्वघातीन्येव । तत्र मिथ्यात्ववर्ज शेष विंशतिप्रकृतीनां जघन्य सर्वघातिरसस्पर्धा कस्य प्रथमवर्गणासत्कैकैकपरमाणौ रसाविभागाः परस्परं तुल्या भवन्ति । इदमुक्तं भवति केवलज्ञानावरणस्य जघन्यरसस्पर्धकसत्कप्रथमवर्गणागतैकैकपरमाणौ यावन्तो रसविभागां भवन्ति, तावन्त एव रसाऽविभागाः केवलदर्शनावरणस्य जघन्यरसस्पर्धा 'कसत्कप्रथमवर्गणागतैकैकपरमाणौ विद्यन्ते, एवं विंशतिप्रकृतीनामन्योऽन्यं द्रष्टव्याः । उक्तं च कषायप्राभृतचूर्णो - " सव्वधादीणं पि मोत्तूण मिच्छत्तं, सेसाणं कम्माणं सव्वधादीणमादिवग्गणा तुल्ला ।” इति ।
अश्वकर्णकरणाधिकारः
मिथ्यात्वमोहनीयस्य तु जघन्यरसस्पर्धकप्रथमवर्गणागतैकैकपरमाणुस्थितरसाऽविभागास्तदितरसर्वघातिप्रकृतेर्जघन्य स्पर्धक प्रथमवर्गणागतैकैकपरमाणौ विद्यमाने रसाविभागः सदृशा न भवन्ति । किं कारणम् ? इति चेत्, उच्यते - सम्यक्त्वमोहनीयस्य सर्वोत्कृष्टदेशघातिरसस्पर्धकानन्तरं सम्यङमिथ्यात्वस्य जघन्य रसस्पर्धकं प्राप्यते, तत्प्रथमवर्गणायां मिथ्यात्ववर्जशेषसर्वघातिप्रकृतीनां जघन्यस्पर्धकसत्कप्रथम वर्गणागतरसाविभागैः ः सदृशा रसाऽविभागास्तिष्ठन्ति । सम्यङ् मिथ्यात्वस्य जघ - न्यरसस्पर्धकादारभ्य द्विस्थानकाऽनुभागविशिष्टानां स्पर्धकानामनन्ततमे भागे गते एव मिथ्यात्व - स्य जघन्यं रसस्पर्धकं प्राप्यते, तेन मिथ्यात्वस्य जघन्यरसस्पर्धकगतप्रथमवर्गणायां रसा ऽविभागा इतरसर्वघातिप्रकृतिसत्कजघन्यरसस्पर्धकप्रथमवर्गणागतरसाऽविभागैस्तुल्या न भवन्ति ।
इदं त्ववधेयम् - मिश्रवशेष सर्वघातिप्रकृतीनां सर्वघातिस्पर्धकानि तावद्वक्तव्यानि यावत्सर्वोत्कृष्टं चतुःस्थानकाऽनुभागविशिष्टं रसस्पर्धकं प्राप्यते, मिश्रस्य तु सर्वोत्कृष्टं सर्वघातिस्पर्धकं मध्यम द्विस्थानकाऽनुभागकं भवति, अग्रे मिश्रस्याऽभावात् । तथा सम्यक्त्वमोहनीयवर्णानां सर्वासां देशघातिप्रकृतीनामुत्कृष्टर सस्पर्धकं चतुःस्थानकं भवति, तच्च सर्वघाति । सम्यक्त्वमोहनीयस्य तूत्कृष्टस्पर्धकं द्विस्थानकरसोपेतं भवति, तथा देशघाति भवति ।
1
सप्तचत्वारिंशतो घातिकर्मणामुत्कृष्टस्पर्धकचरमवर्गणागतरसाऽविभागा मिथस्तुल्या न भवन्ति, तथाहि – ( १ ) सम्यक्त्वमोहनीय स्योत्कृष्ट स्पर्धक चरमवर्गणायां रसाऽविभागा स्तोका भवन्ति, देशघातित्वात् । ( २ ) ततः सम्यङ् मिथ्यात्वमोहनीयस्योत्कृष्टस्पर्धकचरमवर्गणायां रसाऽविभागा अनन्तगुणा भवन्ति, सर्वघातित्वात् । ( ३ ) ततो हास्य मोह - नीयस्योत्कृष्ट स्पर्धकस्य चरमवर्गणायां रसाऽविभागा अनन्तगुणा भवन्ति, सर्वघातित्वे सति चतुःस्थानकानुभागवत्त्वात् । (४) ततो रतिमोहनीयस्योत्कृष्टस्पर्धकस्य चरमवर्गणायां रसाविभागा अनन्तगुणा भवन्ति । (५) ततः पुरुषवेदस्योत्कृष्टस्पर्धकचरमवर्गणायां रसाविभागा अनन्तगुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org