________________
[११७
पूर्वस्पर्धकगणितविभागः ] अश्वकर्णकरणाधिकारः
अनन्तरोक्तवक्तव्यता वर्गणासु रसाविभागादीन् परिकल्प्य स्फुटीक्रियते । तथाहि-प्रथमद्विगुणहानौ पूर्वपूर्वस्पर्धकचरमवर्गणात उत्तरोत्तरस्पर्धकप्रथमवर्गणायां सप्तनवत्युत्तरनवशताधिकनवनवतिसहसः (86,६६७) रसाविभागैरधिका रसाविभागाः कल्प्यन्ते, ते चेहाऽन्तरत्वेन व्यपदेष्टव्याः । चयोऽष्टपरमाणुमात्रः कल्पयितव्यः, एकस्मिन् स्पर्धक वर्गणाश्चतस्रः परिकल्प्यन्ते । अथ प्रथमस्पर्धकस्य प्रथमवर्गणायां परमाणवः षट्पञ्चाशदधिकद्विशती (२५६) कल्प्यन्ते, तत्र चैकैकपरमाणौ रसाविभागा एकलक्षं (१,००,०००) परिकल्प्यन्ते । द्वितीयवर्गणायां परमाणवोऽष्टचत्वारिंशदधिके द्वे शते (२४८) अभिधातव्याः, चयस्याऽष्टपरमाणुमात्रत्वपरिकल्पनात् एकैकपरमाणौ चैकाधिकलक्ष(१,००,००१)रसाविभागा वाज्याः,उत्तरोत्तरवर्गणायामेकैकरसाविभागस्य वृद्ध प्रतिपादितत्वात् । एवं तृतीयवर्गणायां परमाणवः द्वे शते चत्वारिंशच्च (२४०) एकैकपरमाणौ च रसाविभागा व्युत्तरलक्षम् (१००००२), चतुर्थवर्गणायां परमाणवो द्वात्रिंशदधिके द्वे शते (२३२) एकैकपरमाणौ च रसाविभागास्व्युत्तरलक्षम (१,००,००३) ।
तथा द्वितीयस्पर्धकस्य प्रथमवर्गणायां परमाणवश्चतुर्विशत्युत्तरे द्वे शते (२२४), एकैकस्मिंश्च परमाणौ रसाविभागा के लक्ष (२,००,०००), सप्तनवत्युत्तरनवशताधिकनवनवतिसहस्राणां (९९९९७) रसाविभागानामन्तरत्वेन परिकल्पनात् । द्वितीयस्पर्धकस्य द्वितीयवर्गणायां परमाणवः षोडशाधिकद्विशती (२१६) प्रत्येकस्लिश्च परमाणौ रसाऽविभागा एकाधिके द्वे लक्षे (२००००१), तृतीयवर्गणायां चाष्टाधिकद्विशती (२०८) परमाणवी रसाविभागाश्च एकैकपरमाणौ द्वयधिके द्वे लक्षे (२००००२) । चतुर्थवर्गणायां च परमाणवो द्विशती (२००), एकैकपरमाणौ च रसाविभागास्त्र्युत्तरे द्वे लक्षे (२००००३)। ततीयस्पर्धकप्रथमवर्गणायां परमाणवो द्विनवतं शतं (१६२) एककस्मिश्च परमाणौ रसाविभागास्त्रीणि लक्षाणि (३,००,०००),द्वितीयवर्गणायां परमाणवश्चतुरशीत्यधिकशतं (१८४), रसाविभागाश्चैकाधिकानि त्रीणि लक्षाणि (३००००१)तृतीयचतुर्थवर्गणयोरेकैकचयेन हीनाः परमाणव एकोत्तरवृद्धया च रसाविभागा वक्तव्याः।
सम्प्रति प्रथमस्पर्धकप्रथमवर्गणातो द्वितीयादिस्पर्धकप्रथमवर्गणायां रसाविभागा भाव्यन्ते-प्रथमस्पर्धकप्रथमवर्गणातोद्वितीयस्पर्धकप्रथमवर्गणायामेकस्पर्धकगतवर्गणामात्राश्चत्वारश्चया हीयन्ते, एकचयश्चाऽष्टपरमाणुमात्रः, तेन द्वात्रिंशत् परमाणवो हीयन्ते, तथा प्रथमस्पर्धकप्रथमवर्गणातस्तृतीयस्पर्धकप्रथमवर्गणायां स्पर्धकद्वयगतवर्गणामात्रा अष्टौ चया हीयन्ते, परमाणवस्तु चतुःषष्टिीयन्ते, प्रथमद्विगुणहानौ यतितमं विवक्षितं स्पर्धकं भवति, एकोनतत्संख्यागुणितैकस्पर्धकवर्गणाराशिमात्रचयगताः परमाणवः प्रथमद्विगुणहानौ विवक्षितस्पर्धकस्य प्रथमवर्गणायां प्रथमस्पर्धकप्रथमवर्गणातो हीना भवन्तीति व्याप्तेरुक्तत्वेनेहैकस्पर्धके चतसृणां वर्गणानां कल्पितत्वात् एकचयस्य चाऽष्टपरमाणुमात्रत्वपरिकल्पनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org