________________
पूर्वस्पर्धकगणितविभागः ।
अश्वकर्णकरणाधिकारः
[११५
न्यासः
प्रथमद्विगुणहानौ प्रथमस्पर्धकादिवर्गणतो विवक्षितस्पर्धकादिवर्गणायां हीयमानचयाः = यतितमं विवक्षितस्पर्धकम्, एकोनतत्संख्या x एकस्पर्धकवर्गणाः . प्रथमद्विगुणहानौ प्रथमस्पर्धकादिवर्गणातो विवक्षितस्पर्धके हीयमानपरमाणवः = हीयमानचयाः X एकचयगतपरमाणवः
तस्मात् कारणात् प्रथमस्पर्धकप्रथमवर्गणागतनिखिलरसाविभागतो द्वितीयस्पर्धकप्रथमवर्गणायां निखिलरसाविभागा एकस्पर्धकगतवर्गणाराशिमात्रचयगतपरमाणुभिर्द्विगुणान् प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतरसाविभागान् गुणयित्वा गुणितैन्यूना द्विगुणा भवन्ति, तृतीयस्पर्धकप्रथमवर्गणागतनिखिलरसाविभागास्तु स्पर्धकद्वयगतवर्गणाराशिमात्रचयगतपरमाणुभिस्त्रिगुणान् प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतरसाविभागान् गुणयित्वा गुणितैन्यूनास्त्रिगुणा भवन्ति । न्यासःसङ्केतसूचिः
(१) प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतरसाविभागाः = र (२) प्रथमस्पर्धकप्रथमवर्गणागतपरमाणवः
(३) एकस्पर्धकगतवर्गणाः द्वितीयस्पर्धकादिवर्गणागतसकलरसाविभागाः = २ (र x प) - { (वX चय)x२xर } तृतीय , , , , = ३ (रxप) - { (२x२xचय.)४३४र }
इयमत्र व्याप्तिः-प्रथमद्विगुणहानौ प्रथमस्पर्धकप्रथमवर्गणागतपरमाणुतो विवक्षितस्पधकप्रथमवर्गणायां यावन्तः परमाणवो हीयन्ते, तावद्गुणितैः, यावतिथं प्रथमद्विगुणहानिसत्कं विवक्षितं स्पर्धकं भवति तत्संख्यागुणैः प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतरसाविभागैन्यूंनाः, यतितमं विवक्षितस्पर्धकं भवति, तत्संख्यागुणाः प्रथमस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुस्थितसर्वरसाविभागा विवक्षितस्पर्धकप्रथमवर्गणासत्कसर्वपरमाणुस्थितसर्वरसाविभागा भवन्ति । एतदुक्तं भवति-प्रथमद्विगुणहानौ प्रथमस्पर्धकप्रथमवर्गणागतपरमाणूनपेक्ष्येष्टस्पर्धकप्रथमवर्गणायां यावन्तः परमाणवो हीयन्ते, तावतः परमाणूनिष्टस्पर्धकेन गुणयित्वा गुणितं पुनः प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतरसाविभागैस्ताडयित्वा प्राप्यमाणेन्यूना इष्टस्पध केन गुणिताः प्रथमस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुप्रतिबद्धनिखिलरसाविभागा इष्टस्पर्धकप्रथमवर्गणासत्कनिखिलपरमाणुस्थितसर्वरसाविभागा भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org