________________
११४ ]
aarसेढी
[ गाथा - ६३
पूर्वत उत्तरोत्तरस्पर्धकस्य प्रथमवर्गणायां रसाविभागा असंख्येयभागेना - ऽधिका भवन्ति । तथा जघन्यपरित्ता ऽनन्ततम स्पर्धकप्रथमवर्गणायां रसाऽविभागास्तत्पूर्ववर्तिस्पर्धक सत्कप्रथमवर्गणास्थितरसाविभागतः पूर्ववर्तिस्पर्धकसत्कप्रथमवर्गणागतरसाविभागानाममुत्कृष्टा संख्याता संख्यात भागेना-ऽधिका विद्यन्ते । ततः परं सर्वत्र पूर्वपूर्वत उत्तरोत्तरस्पर्धकस्य प्रथमवर्गणायां रसाविभागा अनन्ततमभागेना - sधिका भवन्ति ।
सम्प्रति वर्गणासु रसाविभागाः सूक्ष्मगणितानुसारेणाऽभिधीयन्ते, अनन्तरोक्त प्ररूपणायाः स्थूलगणितानुसारेण दर्शितत्वात् । कथमेतदवगन्तव्यम् ? इति चेद्, उच्यतेयद्यपि प्रथम स्पर्धक प्रथमवर्गणासत्कैकैकपरमाणुगतरसाऽविभागतो द्वितीयस्पर्धक प्रथमवर्गणागतैकैकपरमाणौ रसाऽविभागा द्विगुणा भवन्ति, तथापि प्रथम स्पर्धक प्रथमवर्ग या सत्कसकलपरमाणुस्थितनिखिलरसा ऽविभागतो द्वितीयस्पर्धक प्रथमवर्गणासत्कसकलपरमाणुगता - शेषर साऽविभागा द्विगुणा न भवन्ति, किन्तु किञ्चिन्न्यून द्विगुणाः, प्रथम स्पर्धक प्रथमवर्गणातो द्वितीय स्पर्धकप्रथमवर्गणासत्कसकल परमाणूनां विशेषहीनत्वात् । एवमुत्तरोत्तरस्पर्धक प्रथमवर्गणायां परमाणूनां हीयमानत्वात् प्रथमस्पर्धकप्रथमवर्गणागत सर्व रसाऽविभागतस्तृतीयस्पर्धकप्रथमवर्गणायां सकलरसाऽविभागाः किञ्चिन्न्यूनत्रिगुणा भवन्ति, चतुर्थस्पर्धकप्रथमवर्गणायां च सर्वरसाऽविभागाः किञ्चिन्न्यूनचतुगुणा भवन्ति ।
ननु तेषां न्यूनत्वं कियद्भवति ? इति चेत्, उच्यते - प्रथम स्पर्धकप्रथमवर्गणातस्तद्वितीय वर्ग - गायां परमाणव विशेषहीना भवन्ति, एकचयेन हीना भवन्तीत्यर्थः । ततोऽप्येकेन चयेन हीनास्तृतीयवर्गणायां परमाणवो भवन्ति, ततश्चतुर्थवर्गणायामेकचयेन हीना भवन्ति, ततोऽप्येकचयेन हीनाः पञ्चमवर्गणायां भवन्ति । एवमेकचयहीनक्रमेण तावद् वाच्याः, यावच्चरम स्पर्धकस्य चरमवर्गणा । तस्मात् कारणात् प्रथमस्पर्धकस्य प्रथमवर्गणातो द्वितीयवर्ग णायामेकचयेन हीनाः परमाणवो भवन्ति, प्रथमवर्ग' गातस्तृतीयवर्ग णायां चयद्वयेन हीना भवन्ति, चतुर्थवर्ग णायां त्रिभिचयैर्हीना भवन्ति, पञ्चमवर्ग णायां चतुर्भिश्चयैहींना भवन्ति, अनेन क्रमेण चरमवर्ग णायामे - को स्पर्धकवर्ग णाराशिमात्रैश्वयैहना भवन्ति, द्वितीयस्पर्धकस्य प्रथमवर्ग णायां तु प्रथम स्पर्धक - प्रथमवर्गात एक स्पर्धकगतवर्ग णाराशिमात्र चयैहीनाः परमाणवो भवन्ति, तृतीयस्पर्धकप्रथमवर्ग'णागतपरमाणवः स्पर्धकद्वयगतवर्ग'णाराशिप्रमाणचयैहना भवन्ति ।
इयमत्र व्याप्तिः --- प्रथमद्विगुणहानौ यतितमं विवक्षितस्पर्धकं भवति, एकोनतत्संख्यागुणितैक स्पर्धकवर्गणाराशिमात्रचयगताः परमाणवः प्रथम द्विगुणहानी विवक्षित स्पर्धकस्य प्रथमवर्गणायां प्रथमस्पर्धकप्रथमवर्गणातो हीना भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org