SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Jain Education International खवगसेढी] यन्त्रकम्-१२ (चित्रम्-१२) प्रदेशापेक्षया-ऽनन्तरोपनिधा प्रथमद्विगुणहान्यां चयोऽष्टप्रदेशात्मकः, द्वितीयद्विगुणहान्यां तु तदर्धश्चतुष्प्रदेशात्मकः । तेन प्रथमद्विगुणहान्यामुत्तरोत्तरवर्गणायामष्टभिरष्टभिः प्रदेशै ना हीनतराः प्रदेशा भवन्ति, द्वितीयद्विगुणहान्यां तु चतुर्भिश्चतुर्भिहीना हीनतरा भवन्ति, असत्कल्पनयेह चित्रे प्रथमद्विगुणहानिप्रथमवर्गणायां प्रदेशाः २५६, द्वितीयवर्गणायाम् २४८, तृतीयवर्गणायाम् २४०, एवमग्रेऽपि । प्रदेशापेक्षया परम्परोपनिधा अत्र षोडशवर्गणाप्रमाणा द्विगुणहानिः कल्पिता । तेनाऽसत्कलनया प्रथमद्विगु गहान्याः प्रथमवर्गणायां ये पट्पञ्चाशदधिकद्विशतसंख्याकाः ( २५६ ) प्रदेशा भवन्ति, तदर्धाः प्रदेशा द्वितीयद्विगुणहानिप्रथमवर्गणायामष्टाविंशत्युत्तरशतसङ्ख्याका ( १२८ ) भवन्ति, तदर्धास्तृतीयद्विगुणहानिप्रथमवर्गणायां चतुष्षष्टिः (६४) । एवमग्रेऽपि । For Private & Personal Use Only अनुभागापेक्षया-ऽनन्तरोपनिधा प्रथमद्विगुणहानिप्रथमवर्गणायां रसाविभागाः १०००००, एकाधिकारते द्वितीयवर्गणायाम् १००००१, एवमुत्तरोत्तरवर्गणायामेकैकेनाऽधिका वाच्याः, इहैकस्पर्धके चतुर्वर्गणानां कल्पनात् चरमवर्गणायाम् १००००३ । ९९,९९७ रसाविभागास्वन्तरत्वेन कल्पिताः, तेन प्रथमद्विगुणहानिद्वितीयस्पर्धकप्रथमवर्गणायां रसाविभागाः २०००००, एवमग्रे-ऽपि वक्तव्याः । अनुभागाऽपेक्षया परम्परोपनिधा प्रथमद्विगुणहानिप्रथमस्पर्धकप्रथमवर्गणागतरसाधिभागतः [ १००००० ] द्वितीयस्पर्धकप्रथमवर्गणायां द्विगुणाः २००००० रसाविभागाः । तृतीयस्पर्धकप्रथमवर्गणायां तु त्रिगुणा: ३०००००, एवमग्रेऽपि प्रथमद्विगुणहानिप्रथमवर्गणापेक्षया यतिसंख्यं स्पर्धकं भवति, तत्संख्यगुणा रसाविभागास्तस्पर्धकप्रथमवर्गणायां भवन्ति ।। अथ प्रथमस्पर्धकप्रथमवर्गणा तरसाविभागतो [ १००००० ] द्वितीयम्पर्धकप्रथमवर्गणायां रसाविभागा द्विगुणा: २००००० भवन्ति, द्वितीयस्पर्धकप्रथमवर्गणा तरसाविभागतः (२०००००] तृतीयाकप्रथमर्वाणायां विद्विभागगुणाः । २०००००४३ ) ३००००० भवन्ति, ततश्चतुर्थस्पर्धकप्रथमवर्गणायां चतुस्त्रिभागगुणाः । ३०००००x४] ४००००० भवन्ति । एवमग्रेऽपि । www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy