________________
पूर्व स्पर्धकगणितविभागः ]
अश्वकर्णकरणाधिकारः
[ १११
१६६
-३२-३
१६६
- ४६
२
प्रथमवर्गणायां कर्मप्रदेशाः =EX(२x१६)
DEx३२
3२५६ तत उत्तरोत्तरवर्गणायामष्टपरमाणुलक्षणैकैकचयेन हीना हीनतराः कर्मप्रदेशा निगदितव्याः। एवं शेषद्विगुणहानिगतवर्गणासु कर्मप्रदेशा निश्चेतव्याः । पश्यन्तु पाठका यन्त्रकम्-१२ ।
गणितविभागः समाप्तः । स्पर्धकेषु वर्गणास्तत्र च परमाणून्निरूप्य सम्प्रति रसाऽविभागानभिदध्महे ।
अनुभागा-ऽपेक्षया-ऽनन्तरोपनिधा-प्रथमस्पर्धकस्य प्रथमवर्गणायां सर्वस्तोका रसाऽविभागा भवन्तोऽपि सर्वजीवेभ्योऽनन्तगुणा विद्यन्ते । तत एकेनाधिका रसाऽविभागा द्वितीयवर्गणायां भवन्ति । ततोऽप्येकेना-ऽधिकास्तृतीयवर्गणायाम, एवं तावद् वक्तव्यम् , यावत् प्रथमस्पर्धकस्य चरमवर्गणा । ततो द्वितीयस्पर्धकस्य प्रथमवर्गणायां रसाऽविभागाः सर्वजीवानन्तगुणैरधिका भवन्ति, प्रथमस्पर्धकस्य चरमवगणातो द्वितीयस्पर्धकस्य प्रथमवर्गणायां रसा-ऽविभागानां मार्गणमप्यनन्तरोपनिधा भण्यते, प्रथमस्पर्धकचरमवर्गणातो द्वितीयस्पर्धकप्रथमवर्गणाया अनन्तरत्वात् । द्वितीयस्पर्धकस्य प्रथमवर्गणातस्तद्वितीयवर्गणायां रसाऽविभागा एकेनाधिका भवन्ति, ततस्तत्तृतीयायामेकेनाधिकाः । एवंक्रमेण यत्र यत्र स्पर्धकद्वयस्य सन्धिर्भवति, तत्र तत्र प्राक्तनवर्गणातो-ऽनन्तरोत्तरवर्गणायां रसाऽविभागाः सर्वजीवाऽनन्तगुणरधिका वक्तव्याः, अन्यत्रैकेन रसाऽविभागेनाऽधिका वक्तव्याः । एवं तावद्वक्तव्यम् , यावच्चरमस्पर्धकस्य चरमवगेणा ।
अनुभागापेक्षया परम्परोपनिधा-प्रथमस्पर्धकस्य प्रथमवर्गणातस्तत्स्पर्धकस्याऽन्यासु वर्गणास्वनन्ततमभागेनाधिका रसा-ऽविभागा भवन्ति, न पुनरसंखेयभागादिभिवृद्धाः तथा प्रथमस्पर्धकप्रथमवर्गणायां यावन्तो रसा-ऽविभागा भवन्ति, ततो द्विगुणा रसाऽविभागा द्वितीयस्पर्धकस्य प्रथमवर्गणायां भवन्ति, तृतीयस्पर्धकस्य प्रथमवर्गणायां तु त्रिगुणाः, चतुर्थस्य स्पर्धकस्य प्रथमवर्गणायां तु चतुर्गुणा भवन्ति । एवं प्रथमद्विगुणहानौ यतिसंख्यं यतिसंख्यं स्पर्धकं चिन्त्यते, तत्तत्संख्यागुणिताः प्रथमस्पर्धकसत्कप्रथमवर्गणागता रसाऽविभागास्ततिसंख्यस्य ततिसंख्यस्य स्पर्धकस्या-ऽऽदिवर्गणायां वक्तव्याः। तदेवं प्रथमद्विगुणहानौ परम्परोपनिधा गता, शेषद्विगुणहानिषु तु यथागमं भावनीया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org