________________
१०६ ]
खवगसेढी .
[गाथा-६३ यद्यप्येकद्विगुणहानिगतस्पर्धकत एकस्पर्धके वर्गणा अनन्तगुणाः, ततो नानाद्विगुणहानयो-ऽनन्तगुणा भवन्ति, किन्तु गणितप्रक्रियासौकर्याथै त्रीण्यपि पदानि चतुःसंख्यकानि कल्पितानि ।
अथ प्रथमद्विगुणहानिगतप्रथमवर्गणायां कर्मप्रदेशा निरूप्यन्ते सत्तागतकर्मप्रदेशेषु किञ्चिन्यूनसाद्विगुणहान्या विभक्तेषु प्रथमद्विगुणहानिगतप्रथमवर्गणासत्ककर्मप्रदेशा लभ्यन्ते । अतः प्रकृते पञ्चत्रिंशदुत्तरसप्तशतैत्रिंशद्भागैः सत्तागतकर्मप्रदेशेष्वशीत्युत्त राष्टपञ्चाशच्छतमितेषु विभाजितेषु प्रथमद्विगुणहानिगतप्रथमवर्गणासत्काः प्रदेशाः पट्पञ्चाशदधिकद्विशती (२५६) लभ्यन्ते ।
न्यासः-प्रथमद्विगुणहानिप्रथमवर्गणाकर्मप्रदेशाः सत्तागतपरमाणव: किञ्चिन्यूनसार्धद्विगुणहानिः प्रकृतेऽङ्कतः
, , = ५८८०४ ३२
, , = २५६ चयः-विवक्षितद्विगुणहानिसत्कप्रथमवर्गणागतपरमाणवो द्वाभ्यां द्विगुणहानिभ्यां विभज्यन्ते, तदा तद्विगुणहानिसत्कश्चयो लभ्यते इति करणम् । प्रकृते द्विगुणहानिद्वयलक्षणद्वात्रिंशता (३२) पटपञ्चाशदधिकशतद्वये भाजिते चयो-ऽष्टपरमाणुमात्रः प्राप्यते । न्यास:तत्तद्विगुणहानिचयः = तत्तद्विगुणहानिप्रथमवर्गणाप्रदेशाः
द्वे द्विगुणहानी प्रकृतेऽङ्कतः प्रथमद्विगुणहानिचयः = २५६ .
२४१६
प्रथमद्विगुणहानौ प्रथमवर्गणातः परमुत्तरोत्तरवर्गणायामष्टपरमाणुभिहीना हीनतराः प्रदेशा भवन्ति, चयस्या-ऽष्टपरमाणुमात्रत्वात् । तथाहि-प्रथमद्विगुणहानिसत्कप्रथमस्पर्धकस्य प्रथमवर्गनायां परमाणवः षट्पञ्चाशदुत्तरद्विशती (२५६), द्वितीयवर्गणायामष्टचत्वारिंशदधिकद्विशती (२४८), तृतीयवर्गणायां चत्वारिंशदुत्तरद्विशती (२४०), चतुर्थवर्गणायां द्वात्रिंशदधिकद्विशतमिता (२३२) भवन्ति । ततः प्रथमद्विगुणहानिसत्कद्वितीयस्पर्धकस्य प्रथमवर्गणायां द्विशती चतुर्विंशतिश्च (२२४), द्वितीयवर्गणायां षोडशोत्तरद्विशती (२१६) । एवमेकैकचयेन हीना हीनतराः कर्मपरमाणवस्तावदभिधातव्याः, यावच्चतुर्थस्पर्धकस्य चतुर्थवर्गणा । तस्यां च पट्त्रिंशदधिकशतं (१३६) कर्मप्रदेशा भवन्ति ।
द्वितीयद्विगुणहानिसत्कप्रथमादिवर्गणासु कर्मप्रदेशाः-प्रथमद्विगुणहानेश्चतुर्थर्धकचतुस्पर्थवर्गणासत्केभ्यः षटत्रिंशदधिकशतप्रदेशेभ्योऽष्टपरमाणुमात्रैकचयो विशोध्यते, तदा-ऽष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org