SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पूर्वस्पर्धक गणितविभाग: ] अश्वकर्णकरणाधिकारः [ १०५ लब्धिस्तद्विगुणहानिसत्कचयो भवति । तेन प्रथमद्विगुणहानिगतप्रथम वर्गणाप्रदेशा द्वाभ्यां द्विगुणहानिभ्यां विभज्यन्ते, तदा लब्धिः प्रथमद्विगुणहानिचयो भवति । प्रथमद्विगुणहानिप्रथमवर्गातोर्घा द्वितीय द्विगुणहानिगतप्रथमवर्गणाप्रदेशा द्वाभ्यां द्विगुणहानिभ्यां विभज्यन्ते, तदा द्वितीयद्विगुणहानिचयः प्राप्यते, स च प्रथमद्विगुणहानिचयतोऽर्धो भवति, द्विगुणहानिद्वयलक्षणभाजकस्य समानत्वे सति भाज्यस्यार्धमात्रत्वात् । एवमुत्तरोत्तरद्विगुणहानौ चयोऽर्थोऽधः साधयितव्यः । प्रदर्श्यते चैतदसत्कल्पनया (१) कल्प्यन्तां प्रथमद्विगुणहानिप्रथमवर्गणायां षट्पञ्चाशदधिकद्विशती (२५६) प्रदेशाः । तेन द्वितीयद्विगुणहानिसत्कप्रथमवर्गणायां परमाण्वो ऽष्टाविंशत्यधिकशतं (१२८) तिष्ठन्ति । (२) द्विगुणहानिः षोडशवर्गणा मात्रा कल्प्यते । अथ प्रथमद्विगुणहानिगतप्रथमवर्गणा सत्कप्रदेशाः षट्पञ्चाशदुत्तरद्विशती (२५६) द्विगुणहानिद्वयरूपद्वात्रिंशता (३२) विभज्यते, तदा लब्धश्चयोऽष्टौ (८) प्रदेशा:, तेन प्रथमद्विगुणहान्यां चयोऽष्टप्रदेशमात्रो भवति । द्वितीयगुणहानिगतप्रथमवर्गणाप्रदेशा अष्टाविंशत्यधिकशतं (१२८) द्विगुणहानिद्वयलक्षणद्वात्रिंशता (३२) भज्यते, तदा लब्धश्चयश्चत्वारः (४) प्रदेशाः । तेन प्रथमद्विगुणदानितो द्वितीयस्यां द्विगुणहानौ चयोऽर्धो जायते । एवमन्यस्यामप्यनन्तरानन्तरद्विगुणहानौ चयो -sa-Sर्धो भवति । अथ गणितविभागः अथ सत्तागतपरमाणूनां वर्गणास्पर्धकादिरचना - ऽसत्कल्पनया प्ररूप्यते— कल्प्यतां (१) सत्तागतकर्मप्रदेशा अशीत्युत्तराष्टपञ्चाशच्छतानि (५८८० ) । (२) नानाद्विगुणहानयश्चतस्रः ( ४ ) । (३) द्विगुणहानिः षोडशवर्गणा मात्रा (१६) । (४) तत्रैकैकद्विगुणहानौ स्पर्धा कानि चत्वारि ( ४ ) | (५) एकैकस्मिन् स्पर्धके वर्गणाश्चतसः (४) । (६) किञ्चिन्न्यून सार्धं द्विगुणहानिः पुन पञ्चत्रिंशदुत्तरसप्तशतानि द्वात्रिंशद्भागाः (किञ्चिन्यून ७३५) कुतः १ इति चेत्, उच्यते - द्विगुणहानिः पोडशवर्गणाप्रमाणा, तेन सार्धं द्विगुणहानिश्चतुर्विंशतिवर्गणाप्रमिता सिध्यति, किन्तु प्रकृते सा किञ्चिन्न्युनाऽपेक्षिता, तेन द्वाविंशतिर्वर्गणा एकत्रिंशच्च द्वात्रिंशद्भागाः (२२२२ ) इति कल्प्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy