________________
१०४ ]
स्ववगसेढी
[ गाथा - ६३:
द्विगुणहानिरिति परिभाष्यते । तस्यां चा ऽभव्येभ्यो ऽनन्तगुणानि सिद्धानन्तभागप्रमाणानि स्पर्धकानि भवन्ति । एकैकस्मिन् स्पर्धके वर्गणास्त्वभव्येभ्यो ऽनन्तगुणाः सिद्धानन्तभागमात्राः प्रागुक्ता एव । तत्रैकद्विगुणहानौ स्पर्धकानि स्तोकानि भवन्ति तत एकस्मिन् स्पर्धक वर्गणा अनन्तगुणा विद्यन्ते ।
नानाद्विगुणहानयः- प्रथम स्पर्धकप्रथमवर्गणातो यावत्यायामे गते तत्रत्यस्पर्धक सत्क-प्रथमवर्गणायां प्रदेशा अर्धा भवन्ति, स आयामः प्रथमा द्विगुणहानिः, ततः पुनस्तावत्यायामे गते तत्रत्य स्पर्धकस्य प्रथमवर्गणायां प्रदेशा अर्धा भवन्ति, प्रथम स्पर्धकप्रथमवर्गणा - ऽपेक्षया तु चतुर्भागमात्रा भवन्ति, स आयामो द्वितीयद्विगुणहानिः । ततः पुनस्तावत्यायामे जिते तत्रत्यस्पर्धकस्य प्रथमवर्गणायां प्रदेशा अर्धा भवन्ति । प्रथमवर्गगा ऽपेक्षया त्वष्टभागमात्राः । स आयामस्तृतीया द्विगुणहानिः । एवं सत्तागतस्पर्धकेषु यावत्यो द्विगुणहानयो लभ्यन्ते, ता नाना-द्विगुणहानय उच्यन्ते, नानारूपा द्विगुणहानयो नानाद्विगुणहानय इति व्युत्पत्तेः । ताश्च प्रगणनातो - नन्ता भवन्ति ।
अत्रा - ऽल्पबहुत्वम् - (१) नानाद्विगुणहानयः स्तोकाः । (२) ततो ऽनन्तगुणा द्विगुणहानिः, एकद्विगुणहा निगतवर्गणास्थानान्यनन्तगुणानीत्यर्थः । तथा (१) एकद्विगुणहानी स्पर्धकानि स्तोकानि भवन्ति, (२) तत एकस्मिन् स्पर्धके वर्गणा अनन्तगुणाः, ततो ऽपि नानाद्विगुणहानयोsaगुणा भवन्ति । प्रत्येकं द्विगुणहान्यां स्पर्धकानां राशिस्तुल्या भवति । एवं वर्गणानामपि ।
चयः - प्रथमस्पर्धकस्य प्रथमवर्गणातो द्वितीयवर्गणायां यावन्तः प्रदेशा हीयन्ते, तावतां परमाणूनां समूहश्चय उच्यते, एवं द्वितीयवर्गणातस्तृतीयवर्गणायां हीयमानानां प्रदेशानां समुदायो ऽपि यो निगद्यते । उत्तरोत्तरवर्गणायां हीयमान परमाणूनां समुदायश्चय उच्यते इति यावत् । एकस्यां द्विगुणहानौ चयः पूर्वपूर्ववर्गणात उत्तरोत्तरवर्गणायां समानस्तिष्ठति । प्रथमद्विगुणान्यां यश्चयो भवति, ततोऽश्वयो द्वितीयद्विगुणहानौ भवति । ततो ऽपि तृतीयद्विगुणहानौ अर्धो भवति । एवं पूर्वपूर्वत उत्तरोत्तरद्विगुणहान्यां चयोऽर्धोऽर्धो भवति, किं कारणम् ? इति चेत्, उच्यते - प्रथमद्विगुणहानिगत प्रथमवर्गातों द्वितीय द्विगुणहानिगतप्रथमवर्गणायां प्रदेशा अर्धा भवन्ति, ततोsपि तृतीय द्विगुणहानिगतप्रथमवर्गणायां प्रदेशा अर्धा भवन्ति, एवमग्रे ऽपि । तत्र विवक्षितद्विगुणहानिगत प्रथमवर्गणाप्रदेशा द्वाभ्यां द्विगुणहानिभ्यां विभज्यन्ते, तदा लब्धि
*उक्त च धवलाकारैरपि - " सव्वत्थोवा णाणापदे सगुणहाणिट्ठारांतर सलागाओ । एगपदेसगुणहाणिट्ठाणंतर मरणंतगुणं । को गुणगारो ? अभवसिद्धिएहिं अतगुणो सिद्धाणमरणंतभागमेत्तो ।" इति । भाज्याद्भाजको यावद्वारं विशुद्धयति, तद्वारसंख्या लब्धिसंज्ञिका भवति, भजनफलं लब्धिसंज्ञकं भवतीत्यर्थः । यथा २५६, ३२, अनयोः संख्ययोः षट्पञ्चाशदधिकशतद्वयलक्षणसंख्यातो द्वात्रिंशद्र पसंख्याऽष्टवारं विशुद्धयति । भाज्योऽत्र २५६, भाजकः ३२, लब्धिश्च । अत्र पट्पञ्चाशदधिकद्विशतसंख्या द्वात्रिंशत्संख्यया विभक्ता चेल्लब्धिरष्टसंख्या भवतीति व्यवह्रियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org