SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पूर्वस्पर्धक स्वरूपम् ] अश्वकरणाधिकारः [ १०३ वर्गणा । द्वितीयस्पर्धकं कुतो भण्यते ? इति चेत् उच्यते--प्रथम स्पर्धकच रमवर्गणात एकोत्तर र साऽविभा-गक्रमण वृद्धेरदर्शनात् द्वितीयस्पर्धकमुच्यते, एवमग्रेऽप्यन्तरस्य दर्शनादेकोत्तरक्रमेण च वृद्धेरदर्शनात् नवानि नवानि स्पर्धकानि ज्ञातव्यानि । ततो द्वितीयस्पर्धकेऽपि पूर्ववदेकोत्तरसाविभागवृद्धयाऽभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा वर्गणा वक्तव्याः, तासां समुदायो द्वितीयस्पर्धक्रम् । ततः पुनः सर्वजीवा ऽनन्तगुणरसाऽविभागैरन्तरमभिधाय सर्वजीवा ऽनन्तगुणैरभ्यधिकाः परमाणवः प्राप्यन्ते, तेषां समुदायस्तृतीयस्पर्धकस्य प्रथमवर्गणा । तत एकोत्तररसाविभागवृद्धया परमाणूनां वर्गणा अभव्येभ्यो ऽनन्तगुणाः सिद्धानामनन्तभागकल्पा वक्तव्याः । ततः सर्वजीवानन्तगुणैरन्तरमभिधातव्यम् । एवंक्रमेण सत्कर्मणि सर्वाण्यभव्येभ्यो ऽनन्तगुणानि सिद्धानन्तभागप्रमितानि स्पर्धकानि भवन्ति । अथाऽनन्तरोपनिधा - उपनिधानम् - उपनिधा मार्गणमित्यर्थः, अनन्तरेणोपनिधा अनन्तरोपनिधा । सा चात्राऽनुभागं प्रदेशाग्रं चाश्रित्य द्विधा । तत्र आद्या-नुभागापेक्षयाऽनन्तरोपनिधा नामाऽनन्तरवर्गणातस्तदुत्तरवर्गणायां रसाऽविभागमार्गणम् । द्वितीया प्रदेशापेक्षयाऽनन्तरोपनिधा नामा-ऽनन्तरवर्गणातस्तदुत्तरवर्गणायां प्रदेशाप्रमार्गणम् । अनुभागोपेक्षयाऽनन्तरोपनिधाऽग्रे वच्यते । अथ प्रदेशापेक्षया - Sनन्तरोपनिधा विविच्यते । प्रदेशापेक्षया ऽनन्तरोपनिधा - प्रथमस्पर्धकस्य प्रथमवर्गणायां सर्वप्रभूतं प्रदेशायं भवति, ततो द्वितीयवर्गणायां विशेषहीनं प्रदेशाग्र भवति, एवंक्रमेणोत्तरोत्तरवर्गणायां प्रदेशाय पूर्वपूर्ववर्गगातो विशेषहीनं विशेषहीनं वक्तव्यम् । परम्परोपनिधा-परम्परया उपनिधा-मार्गणम् =परम्परोपनिधा । सा ऽपि द्विधा, अनुभागप्रदेशभेदात् । स्पर्धकवर्गणानां रसाऽविभागानां परम्परया मार्गणमनुभागा-पेक्षया परम्परोपनिधा । स्पर्धकवर्गणायां प्रदेशानां परम्परया मार्गणं प्रदेशाश्रिता परम्परोपनिधा व्यपदिश्यते । अनुभागाsपेक्षा परम्परोपनिधाऽग्रे वच्यते । अथ प्रदेशापेक्षया परम्परोपनिधा भण्यते । प्रदेशापेक्षया परम्परोनिधाप्रथम स्पर्धकस्य प्रथमवर्गणात उत्तरोत्तरवर्गगायां विशेषहीनक्रमेण विद्यमानाः प्रदेशाः कतिपयेष्वनन्तेषु स्पर्धकेषु गतेषु प्राप्यमाणस्पर्धकस्य प्रथमवर्गणायां प्रथमस्पर्धक प्रथमवर्गणाSasu | ततः पुनस्तावन्मात्रेषु स्पर्धकेषु व्यतिक्रान्तेषु तत्रत्यस्पर्धकस्य प्रथमवर्गणायामर्धाः पुद्गला भवन्ति । एवमग्रे ऽपि वक्तव्यम् । तत्र प्रथमस्पर्धक प्रथमवर्गणातो विशेषहीनक्रमेण विद्यमाना यावत्यायामे गते प्रथम स्पर्धकप्रथमवर्गणातः प्रदेशा अर्धा भवन्ति, तावान् आयामो I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy