________________
खत्रगढी
[ गा०-६२
६८ ] द्वात्रिंशत्स्पर्धकप्रमाणं (३२) तत्रैव विमुच्य शेषाणि परणवतिस्पर्धकानि (६६) चतुरशीत्यधिकत्रिशतस्पर्धकात्मकानुभाग खण्डेन ( ३८४ ) सह विघाताय गृह्णाति । इमानि च गृह्यमाणानि षण्णवतिस्पर्धकानि (६६) मानस्य सकला - ऽनुभागसत्कर्मणो द्वादशाधिकपञ्चशतस्पर्धकलक्षणस्याऽनन्ततममागमात्राण्युपरितन पृथक्स्थापितक्रोध का अनुभागस्पर्धकतो ऽनन्तगुणानि भवन्ति । उपरितनपृथकस्थापितको काऽनुभागस्पर्धकं चतुरशीत्यधिकत्रिशतस्पर्धकात्मकाऽनुभागखण्डेन सह घातयति । इत्थं प्रथमखण्डे क्रोधस्य घात्यमानपञ्चाशीत्युत्तरत्रिशतस्पर्धकतो ( ३८५) मानस्य घात्यमानान्यशीत्यधिकचतुः शतस्पर्धकानि (४८०) विशेषाधिकानि भवन्ति । तेन प्रथमा -ऽनुभागखण्डे वातिते घातिताऽवशेषस्पर्धकानि क्रोधस्याऽष्टाविंशत्युत्तरशतं ( २८ ) तिष्ठन्ति, मानस्य तु द्वात्रिंशत् (३२) । इत्थं मानस्य घातिताऽवशेषद्वात्रिंशत्स्पर्धकतः क्रोधस्या - ऽनन्तगुणानि घातिताऽवशेषस्पर्धकान्यष्टाविंशत्युत्तरशतं ( १२८) भवन्ति चतुः संख्याया अनन्तत्वेन परि
कल्पनात् ।
एवं मानस्या ऽनुभागसत्कर्मतो मायाया अनुभागसत्कर्म विशेषाधिकं विद्यते । मानतो यावन्ति स्पर्धकान्यधिकानि तावन्ति बुद्धया पृथक् स्थापयितव्यानि । ततो मानस्याऽनुभागखण्डेन सदृशं मायाया अनुभागखण्डं बुद्धया गृहीतव्यम् । ततो ऽधस्तनमनुभागसत्कर्म मानमाययोः समानं दृश्यते, बुद्धयोभयोरपि सदृशखण्डग्रहणात् । अथ मायाया अवशिष्टा ऽनुभागसत्कर्मणो ऽनन्तानि खण्डानि कृत्वैकं खण्डं तत्रैव विमुच्य शेषाणि बहुभागमात्राण्यनन्तानि खण्डानि प्रागुता - sनुभागखण्डेन सह विघाताय गृह्णाति । इमानि च गृह्यमाणान्यनन्तानि खण्डानि मायायाः सकला ऽनुभाग सत्कर्मणोऽनन्ततमभागप्रमाणानि भवन्ति, उपरितनपृथक्स्थापित-मायाऽनुभाग स्पर्धतोऽनन्तगुणानि भवन्ति । तत उपरितन पृथक्स्थापित - मायास्पर्धकानि मायाया अनुभागखण्डेन सह घातयति । इत्थं मानस्य घात्यमानस्पर्धकतो मायाया घात्यमान स्पर्धकानि विशेषाधिकानि भवन्ति । ततः प्रथमे ऽनुभागखण्डे विनाशिते घातिताऽवशेषस्पर्धकानि मायातो मानस्याऽनन्तगुणानि भवन्ति ।
भाव्यते चेदमसत्कल्पनया - अश्वकर्णकरणाद्धाप्रथमसमये मायाया अनुभागसत्कर्म चतुर्दशाधिकपञ्चशतान्यनुभागस्पर्धकानि ( ५१४) कल्पयितव्यम्, मानस्य तु पूर्ववद् द्वादशाधिकपञ्चशतानि (५१२) । अथोपरितने मायाया द्वे स्पर्धके मानतो ऽधिके स्तः, ते पृथक्स्थापयितव्ये | ततो मानस्या- ऽशीत्यधिकचतुश्शतस्पर्धकप्रमाणखण्डेन (४८०) सदृशं मायाया अशीत्युत्तर चतु:शतस्पर्धकप्रमाणं (४८०) खण्डं गृह्णाति । अथ मायाया अवशिष्टद्वात्रिंशत्स्पर्धकानाम् (३२) अनन्तानि खण्डानि कृत्यैकं खण्डमष्टस्पर्धकमात्रं (८) तत्रैव विमुच्य शेषाणि चतुर्विंशतिस्पर्धकान्यशीत्यधिकचतुःशतस्पर्धकात्मकानुभागखण्डेन सह विघाताय गृह्णाति । इमानि च गृह्यमाणानि चतुर्विंशतिस्पर्धकानि (२४) मायाया सकला - ऽनुभाग सत्कर्मणश्चतुर्दशाधिकपञ्चशत स्पर्धकरूपस्याभागमात्राणि भवन्ति, उपरितन पृथक्स्थापित-माया सत्कस्पर्धक यतश्था ऽनन्तगुणानि । तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org