________________
घातितावशेषरससत्त्वम् ] अश्वकर्णकरणाधिकारः
[६७ ___ 'अहं' इत्यादि, 'अथ' अथशब्दो-ऽत्र प्रकरणान्तरसूचकः, प्रथमा-ऽनुभागखण्ड़े स्पर्धकाऽल्पबहुत्वमुक्तम्, सम्प्रति घातिता-ऽवशेषा-ऽनुभागस्पर्धकानामल्पबहुत्वमभिधीयते इति सूचयति । घातिताऽवशेषस्पर्धकानि' अश्वकर्णकरणाद्धायां प्रथमा-ऽनुभागखण्डेन यदनुभागसत्कर्म पात्यते, तेन रहितमनुभागसत्कर्म पूर्वस्पर्धक-वक्ष्यमाणाऽपूर्वस्पर्धकलक्षणानि धातिता-ऽवशेषस्पर्धकान्युच्यते, तानि 'लोभादीनां लोम-माया-मान-क्रोधानां क्रमेण 'अनन्तगुणनया' अनन्तगुणकारेणाऽवतिष्ठन्ते इति गम्यते, लोभस्य घातिता-ऽवशेषस्पर्धकानि स्तोकानि तिष्ठन्ति, ततो मायाया अनन्तगुणानि, ततो मानस्या-ऽनन्तगुणानि, ततो-ऽपि क्रोधस्या-ऽनन्तगुणानि तिष्ठन्तीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी-'आगाइदसेसाणि पुण फद्दयाणि लोभे थोवाणि, मायाए अणंतगुणाणि, माणे अणंतगुणाणि, कोधे अणंतगुणाणि ।" इति । नन्वश्वकर्णकरणाद्धाप्रथमसमये ऽनुभागसत्त्वं मान-क्रोध-माया-लोभानां यथाक्रमं विशेषाधिकमासीत्, तथाऽश्वकर्णकरणाद्धायां प्रथमानुभागखण्डेन क्रोधादीनामनुक्रमं केवलं विशेषाधिकानि स्पर्धकानि घात्यन्ते, तर्हि घातिता-ऽवशेषा-ऽनुभागस्पर्धकानि लोभादीनां क्रमेणा-ऽनन्तगुणानि कथं सम्पधन्ते ? इति चेत्, उच्यते-अश्वकर्णकरणाद्धाप्रथमसमये मानस्यानुभागसत्कर्मतः क्रोधस्या-ऽनुभागसत्कर्म विशेषाधिकं भवति । मानस्थानुभागसत्त्वतः क्रोधस्य यावन्ति स्पर्धकान्यधिकानि, तावन्ति स्पधेकानि बुद्धया-ऽपनीय पृथक स्थापयितव्यानि । ततः क्रोधस्या-ऽनुभागखण्डेन समानं मानस्याऽनुभागखण्डं बुद्धया गृहीतव्यम् । ततश्चा-ऽधस्तनमनुभागसत्कर्म मानक्रोधयोमिथस्तुल्यं दृश्यते, बुद्धयोभयोरपि सदृशखण्डग्रहणात् । अथ मानस्या-ऽवशिष्टा-ऽनुभागसत्कर्मणो-ऽनन्तानि खण्डानि कृत्वैकं खण्डं तत्रैव विमुच्य शेषाणि बहूनि खण्डानि प्रागुक्तऽनुभागखण्डेन सह विघाताय गृह्णाति, इमानि च गृह्यमाणान्यनन्तानि खण्डानि मानस्य सकला-ऽनुभागसत्कर्मणो-ऽनन्ततमभागमात्राण्युपरितनपृथक्स्थापित-क्रोधाऽनुभागस्पर्धकतोऽनन्तगुणानि भवन्ति । उपरितनपृथक्स्थापित-क्रोधा-ऽनुभागस्पर्धकानि क्रोधस्या-ऽनुभागखण्डेन सह विधातयति । इत्थमश्वकर्णकरणाद्धायां प्रथमा-ऽनुभागखण्डे क्रोधस्य घात्यमानस्पर्धकतो मानस्य घात्यमानस्पर्धकानि विशेषाधिकानि भवन्ति । ततो घातितेषु तेषु स्पर्धकेषु घातिता-ऽवशेषस्पर्धकानि मानतः क्रोधस्याऽनन्तगुणानि तिष्ठन्ति । ___प्रदर्श्यते एतत्सर्वमसत्कल्पनया-अश्वकर्णकरणाद्धाप्रथमसमये क्रोधस्याऽनुभागसत्त्वं त्रयोदशाधिकपञ्चशतान्यनुभागस्पर्धकानि (५१३) कल्पयितव्यम् , मानस्य तु द्वादशाधिकपञ्चशती (५१२)। चतुःसंख्या चा-ऽनन्तराशित्वेन परिकल्पनीया । एवमुपरितनं क्रोधस्यैकं स्पर्धकं मानतो-ऽधिकं भवति, तत् पृथक्स्थापयितव्यम् । ततः क्रोधस्य चतुरशीत्यधिकशतत्रयस्पर्धकमात्रखण्डेन (३८४) सदृशं मानस्य चतुरशीत्यधिकत्रिशतस्पर्धकमात्रं खण्डं (३८४) गृह्णाति । अथ मानस्या-ऽवशिष्टाष्टाविंशत्युत्तरशतस्पर्धकानाम् (१२८) अनन्तानि खण्डानि कृत्वैकखण्डं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org