________________
खवगसेढी
[ गाथा-६२ अथा-ऽश्वकर्णकरणाद्धाप्रथमसमयेऽनुभागवन्यस्याऽल्पबहुत्वमतिदिदिक्षुराह-'तव' इत्यादि, 'तद्वत्' अनुभागसत्कर्मवत् 'बन्धोऽपि' अनुभागबन्धो-ऽपि भवति । उक्तं च कषायप्राभृतचूर्णी--बंधो वि एवमेव ।" इति । इदमुक्तं भवति--अश्वकर्णकरणाद्धाप्रथमसमये मानस्याऽनुभागवन्धः स्तोकः, ततः क्रोधस्य विशेषाधिकः, ततो मायाया विशेषाधिकः, ततो-ऽपि लोभस्य विशेषाधिकः ॥६१॥
अनुभागसत्त्वं रसबन्धं च प्ररूप्या ऽश्वकर्णकरणाद्धायाः प्रथमसमये प्रथमाऽनुभागखण्डेन संज्वलनचतुष्कस्य घात्यमानमनुभागं व्याजिहीर्ष राह
रसखंडं कोहादीण कमेण विसेसअहिअमह । घाइअध्वसेसफड्डाई लोहादीणऽणंतगुणणाए ॥६२॥ (उद्गीतिः)
रसखण्ड क्रोधादीनां क्रमेण विशेषाधिकमथ ।
घातिता ऽवशेषस्पर्धकानि लोभादीनामनन्तगुणनया ॥ २॥ इति पदसंस्कारः। - 'रसखंड' इत्यादि, अश्वकर्णकरणाद्धाप्रथमसमये 'रसखंडम्' अनुभागखण्डं क्रोधादीनां क्रमेण विशेषाधिकं भवति । एतदुक्त भवति-अश्वकर्णकरणाद्धायां प्रथम-ऽनुभागखण्डे क्रोधस्या-ऽनुभागस्पर्धकानि स्तोकानि, ततो मानस्य विशेषाधिकानि, ततो मायाया विशेषाधिकानि, ततोऽपि लोभस्य विशेषाधिकानि विद्यन्ते । उक्तं च कषायप्राभृतचूर्णी--अणुभागखंडयं पुण जमागाइदं, तस्स अणुभागखंउयस्स फद्दयाणि कोधे थोवाणि, माणे फद्दयाणि विसेसाहियाणि, मायाए फदयाणि विसेसाहियाणि, लोभे फद्दयाणि विसेसाहियाणि।" इति । इतः प्रागनुभागखण्डे घात्यमानस्पर्धकानामल्पबहुत्वमित्थमासीत्-मानस्य स्पर्धकानि स्तोकानि, ततः क्रोधस्य विशेषाधिकानि, ततो-ऽपि मायाया विशेषाधिकानि, ततोऽपि लोभस्य विशेषाधिकानि, अनुभागसत्त्वस्य तथात्वेनाऽनुभागखण्डस्य चाऽनुभागसत्कर्मानुरूपत्वेनाऽनुभागखण्डगताऽनुभागस्य तथाविधा-ऽल्पबहुत्वसंभवात् । न चा-ऽश्वकर्णकरणाद्धाप्रथमसमये-ऽपि मानक्रोधमायालोभानां यथाक्रममनुभागसत्त्वं विशेषाधिकं क्रमेण तिष्ठति, तर्हि रसखण्डा-ऽल्पबहुत्वस्य सत्त्वाऽल्पबहुत्वेन सह वैषम्यं कुतो दृश्यते ? इति वाच्यम् , अश्वकर्णकरणाद्धायां प्रथमे-ऽनुभागखण्डे विनष्टे संज्वलनक्रोधादीनां यथाक्रममनुभागसत्कर्मणो-ऽनन्तगुणहीनत्वदर्शनात् । यदि च सवानरूपेणैवा-ऽश्वकर्णकरणाद्धाप्रथमा-ऽनुभागखण्डे रसस्पर्धकानि भवेयुः, तर्हि तस्मिन्ननुभागखण्डे पूर्णे-ऽनुभागसत्त्वं क्रोधादीनामनुक्रममनन्तगुणहीनं न स्यात् । पद्वा-ऽपूर्वस्पर्धककिट्टिकरणादिभिर्विनाशयिष्यमाणं यस्या-ऽनुभागसत्कर्म मन्दं मन्दतरं कृत्वा पश्चाद् निःशेषतः क्षपयिष्यते, तस्या-ऽनुभागः प्रभूतः प्रभूततरो घात्यते इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org