________________
रसबन्ध सत्पयोरल्पबहुत्वम ]
अश्वकर्णकरणाधिकारः
[ ६५
वार्षिक्रमभिहितम् | निरुकस्थानतः प्रभृति संख्येयगुणहानिदर्शनाद् इदानीं संख्येयसहस्रवर्षप्रमितं मोहनीय स्थितिसत्रं कुतो भव्यते ? इति वाच्यम्, तदानीमपि संख्येय सहस्त्रवर्णप्रमाणसत्कर्मण इष्टत्वेऽपि संरूपातराशेने कविन्वात् संख्यात सहस्राणामपि संख्यातराशौ समावेशात् । एवमन्यत्राऽपि बोद्धव्यम् । स्थिति एडसहसैर्वातितं सत् पूर्ववच्छेतिकर्मणामपि स्थितिलयं संख्येप - सहस्रवर्षप्रमाणं नामगोत्रवेदनीयानां चाऽघातिकर्मणामसंख्येवर्षप्रमितं ज्ञातव्यम् ।
1
घण्टालाला न्यायेन " तयाणि मोहस्स" इति पदद्वयमुत्तत्राऽपि सम्बन्धनीयम् । 'अंतो' इत्यादि, तदानीं 'मोहस्य' सज्वलनचतुष्कस्य 'बन्धः' स्थितिबन्धो 'अन्तर्मुहूर्तोनः' अन्तमुहूर्त न्यूनः षोडशवर्षप्रमितो भवति । एतदुक्तं भवति - पुरुषवेदोदयचरमसमये संज्वलन चतुष्कस्य पोडशवर्गमाणः स्थितिबन्ध आसीत्, सम्प्रत्यन्तमुहूर्त न्यून षोडशवर्णप्रमाणं स्थितिबन्धमारभते, अतः प्रभृति हि संज्वलनस्थितिबन्धस्याऽन्तमुहूर्तप्रमाणा हानिर्भवति । उक्तं च कषायप्राभूतचूण--"डिदिबंधो सोलसवस्साणि अंतोमुहूत्तूणाणि ।" इति । शेषकर्मणां तु पूर्ववत् स्थितिबन्धः संख्येयवर्णप्रमाणो ज्ञातव्यः, पूर्व पूर्वतश्च संख्येवगुणेन हीनो हीनतरो भवति ॥ ६०॥ ककरण प्रथमसमयेऽनुभाग सत्कर्मविषयकमल्पबहुत्वमभिधित्सुराह - रससंतं मास्समह विसेसाहि कमेण खलु । होज्जा कोहम | या लोहाणं तव्व बंधो वि ॥ ६१॥
रससत्त्वं मानस्याल्पमथ विशेषाधिकक्रमेण खलु ।
भवति क्रोधमाया लोभानां तद्वद् बन्धो ऽपि ॥ ६१॥ इति पदसंस्कारः |
'रससंतं' इत्यादि, 'रससत्त्वम्' अश्वकर्णकरणाद्धायाः प्रथमसमये ऽनुभागसत्कर्म मानस्य 'अल्पम्' स्तोकम्, उपरि भण्यमान क्रोधादीनामनुभागसत्कर्मणः प्रभूतत्वात् । 'अह' त्ति 'अर्थ' अथशब्द आनन्तर्यार्थः, मानस्याऽनुभागसत्त्वं स्तोकमभिहितं तदनन्तरमित्यर्थः, विशेषाधिकक्रमेण भवति क्रोधमायालोभानां रससत्त्वमिति गम्यते । एतदुक्तं भवति - अश्वकर्णकरणाद्धाप्रथमसमये संज्वलनमानस्यानुभागसच्चं सर्वाल्यम्, ततः संज्वलन क्रोधस्या - ऽनुभागसत्कर्म विशेषाधिकम्, आधिक्यं चा-ऽनन्तै रसस्पर्धकैर्द्रष्टव्यम् । ततोऽपि मायाया विशेषाधिकम्, ततो लोभस्य विशेषाधिकम् । उक्तं च कषायप्राभृतचूर्णो – “अणुभागसंतकम्मं सह आगाइदेण माणे थोवं, कोहे विसेसाहियं, मायाए विसेसाहियं, लोहे विसेसाहियं ।" इति । अत्र 'अणुभागसंतकम्मं सह आगाइदेण" इतिपदत्रयेणा - ऽश्वकर्णकरणाद्धायां प्रविशता जन्तुना यदनुभागखण्डं घात्यते, तेन सह तात्कालिका- अनुभागसत्कर्म बोध्यम् ।
* तथा चाहुर्जयधवलाकारा अपि - " एत्थ सह आगाइदेण त्ति वृत्ते अस्सकण्णकरणमाढवण जमणुभागखंडयमा गाइदं तेण सह तक्कालभावियस्स अणुभागसंतकम्मस्स एदमप्पाबहुअं कीरदि ति भणिदं होदि । एत्थ विसेसाहियपमाणमणंताणि फद्दयाणि ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org