SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ गढी "घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गोऽश्वस्तुरङ्गमः । तस्य कर्णः कण्यतेऽनेनेति कर्णः, "भावाकर्त्रीः " गन्धर्वोsa सप्तवति वाहो वाजी यो हरिः ॥ १ ॥ इति वचनात् । ( सिद्धहेम ० ५ -३ - १८ ) इत्यनेन प्रत्यय, यद्वा किरत्यनेन " इणुवी० " ( उणादि ० १८२ ) इत्यनेन णप्रत्ययः । श्रोत्रम - त्यर्थः, "कर्णः श्रोत्रं श्रवणं च" इति वचनात् हयकर्णवत् करणं प्रथमे ऽनुभागखण्डे - ऽपगते संज्वलन को धप्रभृतिसंज्वलन लोभपर्यवसानानां कषायाणां यथाक्रममनन्तगुणहीनाऽनुभागव्यवस्थापनम् हयकर्णकरणम्, तस्य अद्धा कालः, हयकर्णकरणाद्धा अश्वकर्णकरणाद्धेत्यर्थः, यथा ऽश्वकणों मध्यात् प्रभृत्या ssi हीनो हीनतरो भवति, तथैवा ऽस्यामद्वायामपि प्रथमे ऽनुभागे खण्डे विनष्टे संज्वलन क्रोधादीनां सत्तागतो ऽनुभागः क्रमशो ऽनन्तगुणहीनत्वेन व्यवस्थाप्यते । सम्प्रत्यादोलकरणाद्धा व्युत्पाद्यते - आदोल्यते ऽस्मिन्निति आदोल: "भावकर्त्रा : " (सिद्धहेम ० ५-३-१८) इति श्रधिकरणे घञ्प्रत्ययः, प्रेङ्खोलनमित्यर्थः । आदोल इव करणं संज्वलनक्रोधादीनां यथाक्रममनन्तगुणहीनाऽनुभागव्यवस्थापनम् आदोलकरणम्, तस्याऽद्धा आदोलकरणाद्धा । यथा आदोले वृक्षशाखाया रज्ज्वो वाऽन्तरालगत आकारस्त्रिकोणीभूय क्रमेण हीयमानो दृश्यते, तथैवाऽस्यामद्धायामपि संज्वलनक्रोधादीनामनुभाग सत्कर्मा - ऽनन्तगुणहीनक्रमेण दृश्यते । अथ अपवर्तनोद्वर्तन करणद्धा व्युत्पाद्यते - अपवर्तनं नाम हानि:, उद्वर्तनं नाम वृद्धिः । अस्यामद्धायां प्रथमे ऽनुभागखण्डे जिते सति क्षपकः संज्वलनक्रोधादीनामनुभागसत्कर्म क्रमशो ऽनन्तगुणहीनं करोति, संज्वलन लोभादीनामनुभागसत्त्वं पुनर्यथाक्रममनन्तगुणवृद्धत्वेन व्यवस्थापयतीत्यपवर्तनोद्वर्तनकरणाद्धा व्यपदिश्यते । यद्वा-ऽस्यामद्धायां प्रथमा-ऽनुभागखण्डे - ऽनुभागस्पर्धकानि संज्वलन लोभादीनां विशेषहीनक्रमेण दृश्यन्ते, संज्वलनक्रोधादीनां पुनर्विशेषाधिकक्रमेण दृश्यन्ते इत्यपवर्तनोद्वर्तन करणाद्धा व्यपदिश्यते । पश्यन्तु पाठका यन्त्राणि १०-११ इति ।। ५९ ।। सम्प्रत्यश्वकर्णकरणाद्धायाः प्रथमसमये स्थितिसत्त्वं स्थितिबन्धं च विभणिपुराह - ठिइसंतं संख सहस्सवासमेतं तयाणि मोहस्स । अंतोमुहुत्तऊणो सोलसवासपमित्र बंधो ॥ ६० ॥ स्थितिसत्त्वं संख्यसहस्रवर्षमात्र तदानीं मोहस्य | अन्तर्मुहूर्तोनः षोडशवर्षप्रमितो बन्धः ||३०|| इति पदसंस्कारः । , 'ठिइसतं' इत्यादि, तत्र 'तदानीं ' प्रत्यासत्तेरश्वकर्णकरणाद्वायाः प्रथमसमये 'मोहस्य' मोहनीयकर्मणः संज्वलन चतुष्कस्येति यावत् स्थितिसत्त्वं संख्यसहस्रवर्षमात्रं भवति, पूर्वमपि स्त्रीवेदक्षपणाद्धाचरमसमये मोहनीय कर्मणः स्थितिसत्रं संख्येयसहस्रवर्षप्रमितमासीत्, स्थितिखण्डसहस्रैर्घातितं सत् सम्प्रत्यपि संख्येयसहस्रवर्षप्रमाणं भवति, किन्तु पूर्वतः संख्येयगुणहीनं भवतीत्यर्थः न च स्त्रीवेदक्षपणाद्धाचरमसमये पुरुषवेदक्षपणाद्धाचरमसमये च मोहनीयसत्कर्म संख्येय ६४ ] Jain Education International For Private & Personal Use Only गाथा - ६० www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy