________________
नोकषायक्षपणायन्त्रम् ] अनिवृत्तिकरणाधिकारः
[६१ कसिणेसु।" इति । तथैव सप्ततिकावृत्तावपि न्यगादि--' इह केचिच्चतुर्विधबन्धसंक्रमणकाले त्रयाणां वेदानामन्यतमस्य वेदस्योदयमिच्छन्ति, ततस्तन्मतेन चतु. विधबन्धकस्याऽपि प्रथमकाले द्वादश द्विकोदये भगा लभ्यन्ते ।" इति । इत्थमिदं स्फुटीभवति, यत् पुरुषवेदस्योदये-ऽपि तद्बन्धो नास्ति, वेदकषायलक्षणद्विकोदयेऽपि क्रोधमानमायालोमात्मकचतुष्प्रकृत्यात्मकबन्धस्थानस्योपलम्भात् ।
नपुसकवेदक्षयप्रभृतयो यन्त्रके प्रदर्श्यन्ते ।
(१) (i) अन्तरकरणनिष्पादनतः संख्ये यसहस्रस्थितिन्धेषु गतेषु नपुसकवेदः सर्वथा क्षीणो भवति । गा०-५१ ___(ii) तदानीं गुणितकर्मा शस्य शीघ्रक्षपकस्य जीवस्य नपुसकवेदस्योत्कृष्ट प्रदेशसंक्रमो भवति । (२) ततः स्त्रीवेदं क्षपयितुमारभते । गाथा-५१ (३) स्थितिखण्डपृथक्त्वेन स्त्रीवेदक्षपणायाः संख्येयतमे भागे गते त्रिघातिकर्मणां संख्येयवार्षिक: स्थि
तिबन्धो भवति । इत ऊर्ध्व घातित्रयस्य स्थितिबन्धः संख्येयगुणहीनः । गाथा-५२ (४) (i) ततः स्थितिखण्डपृथक्त्वेन शेषेषु स्त्रीवेदक्षपणाद्धायाः संख्येयबहुभागेषुगतेषुस्त्रीवेदःसर्वात्मनाक्षीणः।
(ii) तदानीं गुणितकर्मा शस्य जीवस्य स्त्रीवेदस्योत्कृष्टप्रदेशसंक्रमो भवति । गाथा-५२ (५) तदनन्तरसमये सप्तनोकषायाणां क्षपणारम्भः। गाथा-५३-५४-५५ (i) तदानी स्थितिबन्धाल्पबहुत्वम्
। (ii) तदानीं स्थितिसत्त्वाल्पबहुत्वम् (१) मोहनीय स्थितिबन्धः स्तोकः ।
(१) मोहनीयस्य स्थितिसत्त्वं स्तोकम् (२) ततो घातित्रयस्य स्थितिबन्धः संख्येयगुणः । (२) ततो घातित्रयस्य स्थितिसत्त्वमसंख्येयगुणम् (३) ततो नामगोत्रयोः स्थितिबन्धोऽसंख्येयगुणः (३) ततो नामगोत्रयोः , (५) ततो वेदनीयस्य स्थितिबन्धो विशेषाधिकः। (४) ततोऽपि वेदनीयस्य स्थितिसत्त्वं विशेषा
धिकम् । (६) ततः स्थितिखण्डपृथक्त्वेन सप्तनोकषायक्षपणाद्धायाः संख्ये यतमे भागे गतेऽघातिनां कर्मणां
संख्येयवार्षिक: स्थितिबन्धो जायते । गाथा-५५ ततः स्थितिखण्डपृथक्त्वेन सप्तनोकषायक्षपणाद्धाया. संख्येयेषु बहुभागेषु गतेषु ज्ञानावरणदर्शना
वरणाऽन्तरायाणां संख्येयवर्षप्रमितं स्थितिसत्त्वं जायते । गाथा-५६ () पुरुषवेदस्य प्रथमस्थितावावलिकाद्वयशेषायामागालप्रत्यागालौ व्यवच्छिन्नौ। (E) (i) पुरुषवेदस्य प्रथमस्थितौ समयाधिकाबलिकाशेषायां पुरुषवेदस्य जघन्या स्थित्युदीरणा जघन्यानु
भागोदीरणा च भवति । (ii) तदानीमेव गुणितकर्मा शस्य जीवस्योत्कृष्ट प्रदेशोदीरणा भवति । (१०) (i) तत श्रावलिकायां गतायां पुरुषवेदस्य चरमोदयः । (ii) तदानीं हास्यषटकं निश्शेष क्षीणं समयोनद्वयावलिकाबद्धनूतनदलं च वर्जयित्वा शेषः पुरुषवेदः क्षीणः ।
__ अपूर्णम् * उक्तञ्च गोमटसारटीकायामपि-"पुरुषवेदोदयेन श्रेण्यारूढे पुवेदस्य बन्धव्युच्छित्तिः उदयव्युच्छित्तिश्च द्वे युगपदेव । अथवा चक्षब्दाद् बन्धव्युच्छितिः उदयद्विचरमसमये स्यात् ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |