________________
पुरुषवेदक्षपणा ]
निवृत्तिकरणाधिकारः
चरमसमये न सर्वथा क्षपयति, किन्त्यपगत वेदप्रथमसमये सर्वथा क्षपयति, एवं द्विचरमावलिकासत्कतृतीयादिसमयैरपि बद्धदलिकं पुरुषवेदोदयचरमसमये न सर्वात्मना क्षपयति । तेन पुरुष - वेदोदय चरमसमये समयोना-ऽऽवलिकाद्वयबद्धदलिकं न निश्शेषतः क्षीणं भवति, तावता कालेन बद्धदलं तदानीं सत्कर्मणि विद्यते इत्यर्थः इत्यलं प्रपञ्चन । तच्च नूतनदलमश्वकर्णकरणाद्धायां तावता कालेन पयिष्यति ।
"
पुरुषवेदोदय चरमसमये जघन्य स्थित्युदयो जघन्याऽनुभागोदयश्च भवति । उक्तं च कर्मप्रकृतौ -
"ठिइउदओ वि ठिक्वयपयोगसा ठिइउदीरणा अहिगो । उठिए हस्सो छत्तीसा एगउदयठिई ॥ १ ॥ अणुभागुदओ वि जहणं नवरि आवरणविग्धवेयाण । संजलणलोभसम्मत्ताण य गंतूणमावलिगं ॥ २ ॥” इति ।
तदानीमेव गुणितकर्मा शस्य जीवस्य पुरुषवेदस्योत्कृष्ट प्रदेशोदयो भवति । उक्तं च कर्मप्रकृतिचूर्णो - "संमत्तस्स चउण्हं संजलणाणं तिन्हं वेयाणं तेसिं अट्ठण्ह खवगस्स गुणियकंमंसिगस्स अप्पप्पणो उदयचरिमसमते वद्यमाणस्स उक्कोसतो पदेसुदओ ।" इति ॥ ५७ ॥
पुरुषवेदस्य चरम स्थितिबन्धं स्थितिसच्चं च निजिगदिपुराह -
पुरिसस्त वरिसा सोलसवरिसाणि संजलणगाणं । बंधो संतं घाइघाईणं संख संखवासाई ॥ ५८ ॥ ( गीतिः)
पुरुषस्या- ऽष्टवर्षाः षोडशवर्षाणि संज्वलनानाम् ।
बन्धः सत्त्वं घात्यघातिनां संख्या ऽसंख्यवर्षाणि ।। ५८ ।। इति पदसंस्कारः ।
[=&
Jain Education International
'पुरिसस्स' इत्यादि, 'पुरुषस्य' पुरुषवेदस्य 'बन्धः' स्थितिबन्धः 'अष्टवर्षाः' अष्टवर्ष प्रमाणो भवति । 'संज्वलनानां' संज्वलन क्रोधमानमाया लोभानां 'षोडशवर्षाणि' पोडशवर्ष प्रमाणः स्थितिबन्धो जायते, शेषाणां षट्कर्मणां स्थितिबन्धः पूर्ववत् संख्येयवर्षसहस्रप्रमाणो भवति । न च स्त्रीवेदक्षपणाद्धासंख्येयतमे भागे गते त्रयाणां घातिकर्मणां सप्तनोकषायक्षपणाद्धासंख्येयतमभागे च वजितेऽघातित्रयस्य संख्येयवर्षमात्रः स्थितिबन्धो ऽभिहितः, इदानीं पुनः संख्ये यवर्ष - सहस्रप्रमितः कुत उच्यते ? निरुक्तस्थानतः प्रभृति निरुक्तकर्मणां स्थितिबन्धे प्रत्यन्तमुहूर्त संख्येयगुणहानिदर्शनादिति वाच्यम्, तदानीमसंख्येयवार्षिकत्वनिषेधायाऽभिहितत्वात, वस्तुतस्तदानीमपि संख्यातसहस्रवर्षमितस्थितिबन्धस्येष्टत्वेऽपि संख्यातराशेरनेकविधत्वेन संख्यातसहस्राणामपि
For Private & Personal Use Only
www.jainelibrary.org