________________
खवगसेढी
[ गाथा-५७ रादिवत् स्त्रीदे क्षीणे । यदुक्तं कर्मप्रकृतिचूर्णी संक्रमकरणाधिकारे-“ततो पुरिसवेयस्स पढमहितीए समऊणदुआवलिआए सेसाए पुरिसवेदो पडिग्गहो ण होदि त्ति ।" इति । एवं स्त्रीवेदे क्षीणे-ऽपि पुरुषवेदस्य पतद्ग्रहत्वात् हास्यपकं पुरुषवेदे संक्रमयति कर्मप्रकृ. तिचूर्णिकारमतेन । तेन पुरुषवेदस्य प्रभूतसञ्चयः पुरुषवेदोदयारूढस्य जीवस्य भवति । यद्यपि परवेदोदयारूढापेक्षया प्रथमस्थितेर्विशेषाधिकत्वेन प्रतिसमयमुदयेनाऽसंख्येयसमयप्रबद्धं प्रदेशाग्रं परुषवेदस्य निर्जरति, किन्तु हास्यपट कतः प्रतिसमयं दलिक गुणसंक्रमेणा-ऽऽगच्छति, अतः परुषवेदोदयेन प्रतिपन्नस्य क्षपकस्य गुणितकर्मा शस्य जीवस्य पुरुषवेदस्योत्कृष्टप्रदेशसञ्चयो भवति, व्ययत आयस्य प्रभूतत्वात् । तेन कर्मप्रकृतिचूर्णिकारादीनां मतेन स्वोदयारूढस्य जीवस्य पुरुषवेदसत्कोत्कृष्टप्रदेशसंक्रमो भवति । कषायप्राभृतचर्णिकारादीनां मतेन पनः परोदयेनारूढस्यैव जीवस्य परुषवेदसत्कोत्कृष्टप्रदेशसंक्रमो भवति, स्त्रीवेदे क्षीणे परुषवेदस्य पतद्ग्रहत्वाभावेना-ऽऽयतो व्ययस्य प्रभूतत्वात् ।
___ अथ पुरुषवेदस्य चरमोदयं तदानीं चा-ऽवशिष्यमाणं पुरुपवेदस्य दलं प्ररुरूपयिषुराह'चरिमें' इत्यादि, 'चरमे' पुरुषवेदोदयचरमसमये 'समयोनद्वयावलिकाबद्धं पुरुषवेदस्य समयोनावलिकाद्वयेन बद्धं नतनप्रदेशाग्रं शेषं विद्यते, द्वितीयस्थितौ समयोना-ऽऽवलिकाद्वयबद्धदलं सत्कमण्यवशिष्यते इत्यर्थः, तथा 'उदयस्थितिः शेषा' पुरुषवेदस्यैकोदयस्थितिः शेषा भवति, शेषः सर्वः पुरुषवेदः सर्वात्मना क्षीणः । न्यगादि च कषायप्राभृतचूौँ – “तदो चरिमसमयसवेदो जादो, ताधे छण्णोकसाया संमृद्धा । पुरिसवेदस्स जाओ दो आवलिआओ समयूणाओ, एत्तिगा समयपपडा बिदियठिदीए अत्थि, सेसं पुरिसवेदस्स संतकम्मं सव्वं संछुद्धं ।” इति ।
ननु समयोनद्वयावलिकाबद्ध-नूतनपुरुषवेददलं प्रथमस्थितिचरमसमये कुतो न सर्वथा क्षपयति ? इति चेत्, शृणुत - परुषवेदस्य प्रथमतो बन्धः प्रवतते, तेन यथा चिरकालबद्धदलं क्षपयति, तथैव नूतनबद्धदलिकमपि क्षपति, किन्तु बन्धावलिकायां व्यतिक्रान्तायामेव, नार्वाग्, बन्धावलिकायाः सकलकरणा-ऽयोग्यत्वात् । अतः पुरुषवेदप्रथमस्थितिसत्कद्विचरमाऽऽवलिकायाः प्रथमसमये पुरुषवेदस्य बद्धं दलिक बन्धसमयादारभ्याऽऽवलिकाचरमसमरं यावत्तदवस्थं तिष्ठति, तत्क्षपणं नास्ति,बन्धावलिकायाः सकलकरणा-ऽयोग्यत्वात् । तदनन्तरं प्रथमस्थितिचरमाऽऽवलिकाप्रथमसमयात् प्रभृति क्षपयितुमारभते, एकसमयेन बद्धं दलिकं क्षपयितुमावलिकाप्रमाणः कालो गच्छतीति कृत्वा प्रथमस्थितिसत्कद्विचरमावलिकाप्रथमसमयेन बद्धं दलं चरमावलिकायाश्वरमसमये सर्वथा क्षपयति, द्विचरमावलिकाद्वितीयसमयेन बद्धं दलं चरमा ज्वलिकायाः प्रथमसमयं पावत्तदवस्थं तिष्ठति । ततश्चरमावलिकाया द्वितीयसमयात् प्रति प्रतिसमयं क्षपयंश्वरमावलिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org