________________
निवृत्तिकरणाधिकारः
[ =9
कषायक्षपणा ] जघन्याऽनुभागसंक्रमश्च भवति, प्रदेशसंक्रमस्तु गुणितकर्मा शस्य जन्तोरुत्कृष्टो भवति । उक्तं च कर्मप्रकृतिचूर्णी - "सेसगाणं ति वृत्तसेसाणं धीणगिडितिग-तेरसणामा अट्ठकसायणवणोकसाया कोह संजलणमाणमायासंजलणाणं एयासिं छत्तीसाए कम्मपगतीणं 'खवणकमेण' त्ति खवणपरिवाडिते चेव अप्पणो चरिमसंछोभे वहमाणो अनियजिहण डितिसंक्रमसामी । x x x x अंतरकरणे कए उवरि जासिं घातिकम्माणं जहिं जहण्णगो हितिसंक्रमो भणितो, तासि अप्पप्पणो डाणे तहिं जह orgभागको । xxx थीणगिडितिग-उन्नोकसायासन्तणाम- अट्ठकसायाणं एतासिं चवीसाए पगतीणं गुणितकंमंसितस्स अणियट्टिकरणे वट्टमाणस्स उक्कोस्सो पदेससंकमो सव्वसंकमेण लभति ।" इति । एवं कषायप्राभृतचूर्णावपि ।
तदानीमेव कर्मप्रकृतिका रादीनामभिप्रायेण पुरुषवेदोदयारूढस्य गुणितकर्मा शस्य क्षपकस्य पुरुषवेदस्योत्कृष्ट प्रदेशसंक्रमो भवति । अक्षराणि त्वेवम् - - " ततो चुतो 'लहुं'ति मासपुहुत्तट्ठवासिगो 'पुरिसं संभमाणस्स' त्ति खवणाए उवडियस्स पुरिसवेदं चरिमसंलोभणाए संछुभमाणस्स पुरिसवेदस्स उक्कोस्सगो पदेस संकमो संसारे वचियस्स दलियस्स गुणसंकमेण संचियस्स चरिमसंठो होइ । दोहिं आवलियाहिं बन्धवोच्छेदो होहिति त्ति जं तंमि काले दलितं बर्ड, तण्ण होति संसारोवचियं । मोत्तु सेसस्स उक्कोसो पदेससंकमो भवति ।" इति । कषायप्राभृतचूर्णिकारादीनां मतेन पुनर्यो गुणितकर्मा शः स्त्रीवेदोदयेन वा नपुंसक वेदोदयेन वा क्षपकश्रेणि प्रतिपद्यते स एव पुरुषवेदस्योत्कृष्टतः प्रदेशाग्रं संक्रमयति, न पुरुषवेदोदयारूढः कथमेतदवसीयते इति चेत् ? उच्यते, यः पुरुषवेदोदयेन क्षपकश्रेणिमधिगच्छति, तस्य जीवस्य वेदस्य प्रथमस्थितिः स्त्रीवेदोदयारूढस्य वेदप्रथमस्थितितः संख्ये मागेनाऽधिका भवति, स्त्रीवेदे क्षीणे कषायप्राभृतकारादीनां मतेन पुरुषवेदोदयारूढस्य जीवस्य पुरुषवेदे न काचिदपि प्रकृतिः संक्रामति, तेन स्त्रीवेदक्षयादुपरि केवलं बन्धेनैकसमयप्रबद्धद लिकमा गच्छति, उदयेन तु प्रतिसमयमसंख्य समयप्रबद्धदलं निर्जरामेति, एवभायतो व्ययः प्रभूतो भवति, तेन पुरुषवेदस्योत्कृष्ट प्रदेशसंक्रमो गुणिताकर्माशस्य स्त्रीवेदोदयारूढस्य नपुंसक वेदोदयारूढस्य च जीवस्य पुरुषवेदसत्कचरमखण्डाद्धाचरमसमये भवति, तस्यैवोत्कृष्ट प्रदेशसञ्चयसम्भवात् ।
न च कर्मप्रकृतिचूर्णिकारादयो ऽपि पुरुषवेदस्योत्कृष्ट प्रदेशसंक्रमः परवेदोदयेनाssरूढस्य गुणितकर्मा शस्य जीवस्य कुतो न मन्यन्ते । इति वाच्यम्, मतान्तरसम्भवेन विरोधाभावात्, तथाहि-- कर्मप्रकृतिचूर्णिकारादयः पुरुषवेदस्य पतद्ग्रहता पुरुषवेदप्रथमस्थितौ समयोनद्वयावलिका शेषायामपगच्छतीति मन्यन्ते, न तु कषायप्राभृतचूर्णिसप्ततिका चूर्णिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org