________________
८६] खवगसेढी
[गाथा-५७ षटकं पुरुषवेदोदयद्विचरमसमये, पञ्चप्रकृत्यात्मकसत्तास्थानसत्कस्य कालस्य समयोनावलिकाद्वयमात्रत्वात्, पुरुषवेदस्य चरमस्थितिखण्डं तदानीमेव धात्यते इत्येतत् कथमवगन्तव्यम् ? इति वाच्यम्, कषायप्राभृतचूर्णी प्रदेशविभक्त्यधिकारे उक्तत्वात् । तथाहि-पुरुषवेदो. दयद्विचरमसमये पुरुषवेदस्य चरमस्थितिखण्डं सर्वात्मना घात्यते । तथा चात्र कषायप्राभूतचूर्णि:-"दुचरिमसमयसवेदस्स चरिमहिदिखंउगं चरिमसमयविणहूँ।" तथा कर्मप्रकृतिचूर्णावपि सत्ताधिकारे प्रथमस्थितेचिरमसमये पुरुषवेदस्य चरमस्थितिघाताद्धायाश्चरमसमये यज्जघन्यं प्रदेशसत्त्वं भवति, तत आरभ्य एकैकपरमाणुना वृद्धमुस्कृष्टप्रदेशसत्त्वं यावद् यावन्ति स्थानानि लभ्यन्ते, तेषामेकं स्पर्धकं विहितम् । तथा चा-त्र कर्मप्रकृतिचूर्णिः-- दुचरिमसमयपुरिसवेयगस्स अपच्छिमठितिखंडगस्स चरिमसमए जहण्णगं पदेससंतं आदि काऊण जाव अप्पणो उक्कोसं पदेससंतं निरंतराणि ठाणाणि लम्भंति ।" इति । अत्र वेदोदयद्विचरमसमये-ऽर्थात् पुरुषवेदप्रथमस्थितिद्विचरमसमये स्थितिघाताद्धायाश्चरमसमयप्रतिपादनाद् एतत् सूपपद्यते, यत् पुरुषवेदोदयद्वि चरमसमये पुरुषवेदस्य चरमस्थितिखण्डं घात्यते ।
अन्ये पुनराहुः-पुरुषवेदोदयचरमसमये हास्यषट्कं सर्वथा क्षीयते, हास्यषटकक्षयसमकाले पुरुषवेदबन्धस्य व्यवच्छेदप्रतिपादनात् । उक्त च श्रीमदुपाध्यायपुङ्गवः-“यस्तु पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्तस्य नोकषायषट्कक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेद इति ।” एवं पुरुषवेदोदयचरमसमये नवकवद्धपुरुषवेदं विहाय शेषः पुरुषवेदः क्षीयते इति मन्यन्ते । - अन्यच्च कर्मप्रकृतिचूर्णिकृता पुरुषवेदस्य प्रथमस्थितौ समयोनद्वयावलिकायां शेषायां पुरुषवेदस्य पतद्ग्रहत्वं निषिद्धम् । अक्षराणि त्वेवम्-"ततो पुरिसवेयस्स पढम द्वितिए समऊणदुआवलिआए सेसाए पुरिसवेदो पडिग्गहो ण होति त्ति ते दस पुरिसवेदणेसु चउसु संजलणेसु समयूणदुआवलियमेत्तं संकमंति।" इति । तच्च मतान्तरमन्यथा वा परिभावनीयम् । कषायप्राभूतचूर्णिसप्ततिकाचर्णिकारादिमतेन तु स्त्रीवेदे क्षीणे पुरुषवेदः पतद्ग्रहो न भवति, यतः कषायप्राभृतचूर्णिकारमतेना-ऽन्तरकरणनिष्ठातः प्रभृति हास्यषटकं पुरुषवेदे न संक्रमयति, केवलं स्त्रीनपुंसकलक्षणवेदद्वयं संक्रमयति, तस्य च क्षीणत्वात् न कांचिदपि प्रकृति पुरुषवेदे संक्रमयति । सप्ततिकाचर्णिकाराद्यभिप्रायेण स्त्रीवेदे क्षीणे हास्यषट्कं संज्वलनक्रोधे संक्रामन्ति, न पुरुषवेदे, तच्च प्राग् दर्शितम् । आनुपूर्वीसंक्रमसद्भावाच्च क्रोधादयः पुरुषवेदे न संक्रामन्ति ।
हास्यपट कस्य चरमस्थितिखण्डं संक्रमयतो जन्तोर्हास्यपट कस्य जघन्यस्थितिसंक्रमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org