________________
सप्तनोकषायक्षपणा अनिवृत्तिकरणाधिकारः
[८५ जघन्या-ऽनुभागोदयो जायते । उक्तं च कर्मप्रकृती
"अणुभागुदओ वि जहएणं नवरि आवरणविग्धवेयाण ।
संजलणलोभसम्मत्ताण य गंतूणमावलिगं ॥१॥” इति । तथैव तहोकायामपि--"नवरं ज्ञानावरणपञ्चका-ऽन्तरायपञ्चक-दर्शनावरणचतुष्टय-वेदत्रय-संज्वलनलोभ-सम्यक्त्वादीनामुदोरणाव्यवच्छेदे सति परत आवलिकां गत्वा-अतिक्रम्य तस्या-आवलिकायाश्चरमसमये जघन्याऽनुभागोदयो वक्तव्यः।” इति । तेनोदीरणायां व्यवच्छिन्नायामपि केवलं शुद्ध उदयः प्रवर्तते इति सिद्धम् । न केवलं युक्त्या साध्यते, सप्ततिकाचूर्णिकारैरप्युक्तम् । अक्षराणि त्वेवम्-"तिण्हं वेयाण तेण तेण वेदेण सेटिं पउिवण्णस्स अंतरकरणे कए पढमहितीर जाव आवलिया सेस त्ति ताव उदओ य उदोरणा य जुगवं । ततो आवलियामेत्तं कालं उदओ चेव । उदीरणा णत्थि।" इति । पुरुषवेदं केवलेन शुद्धेनोदयेना-ऽनुभवन् पुरुषवेदोदयस्य द्विचरमसमये संख्येयवर्षस्थितिकं हास्यपटकं संज्वलनक्रोधे सर्वसंक्रमेण सर्वात्मना क्षपयन् पुरुषवेदस्य चरमस्थितिखण्डं घातयति । कथमेतदवसीयते ? इति चेत्, शृणुत-पञ्चप्रकृत्यात्मकसत्तास्थानस्य कालो जघन्यत उत्कृष्टतश्च समयोनद्वयावलिकामात्रो भवति, यदुक्तं कषायप्राभूतचूर्णी प्रकृति विभक्तयधिकारे- "पंचण्हं वित्तिओ केवचिरं कालादो ? जहण्णुक्कस्सेण दोआवलिओ समयूणाओ।" इति । स च जघन्योत्कृष्टकाल इत्थं भावनीयः-पुरुषवेदोदयेन क्षपकश्रेणिं प्रतिपन्नः पुरुषवेदप्रथमस्थितेचिरमसमये सर्व हास्यपटकं पुरुषवेदस्य चैकामुदयस्थितिमावलिकाद्वयबद्धनूतनदलं च वर्जयित्वा शेषं पुरुषवेदं सर्वात्मना क्षपयति । ततोऽनन्तरसमये-ऽर्थात् पुरुषवेदप्रथमस्थितिचरमसमये पुरुषवेदसंज्वलनचतुष्करूपाः पञ्चप्रकृतयः सत्कर्मणि विद्यन्ते । तेन ततः प्रभृति पञ्चप्रकृत्यात्मकं सत्तास्थानं प्राप्यते, तच्च तावद् भवति, यावत् समयोनावलिकाद्वयेन बद्धनूतनपुरुषवेदः क्रोधे निश्शेषतः संक्रान्तो न भवति * । इदं तु नयविशेषण बोध्यम्, सामान्येन तु पुरुषवेदप्रथमस्थितिदिचरमसमये हास्यपट्के क्षीणे आपलिकाद्वयं यावत् पञ्चप्रकृत्यात्मकं सत्तास्थानं संभवति, एतच्च सूक्ष्मधिया परिभावनीयम् । न च क्षपयतु हास्य
कएवं धवलाकारैरप्युदयप्ररूपणायामुक्तम् । तथा च तद्ग्रन्थ:--"पचणाणावरणीय-चत्तारिदंसणावरणीय-सम्मत्त-तिण्णिवे-दलोहसंजलण-पंचअंतराइयाणं जहण्णओ अणुभाग उदओकस्स ? जो एदेसि कम्माणं जहण्णअणुभागउदीरओ होदूण तदो आवलियाए अदिक्कंताए सो चेव ज ण्णाणुभागवेदओ होदि।" इति।
___ * भावितश्च वमेव जयधवलाकारैरपि, तथा च तद्ग्रन्थः-कुदो ? कोधसंजलणपुरिसवेदोदएण क्खवगसेढिं चडिदस्स सवेदियदुचरिमसमए छण्णोकसाएहि सह खविदपुरिसवेदचिराणसंतस्स सवेदियचरिमसमए समयूणदोआवलियमेतपुरिसवेदणवकसमयपबद्धाणमुवलंभादा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org