________________
अनिवृत्तिकरणाधिकारः
सप्तकषायक्षपणा ]
[८३ सप्तनोकपायसत्कक्षपणाद्धायाः संख्येयेषु बहुभागेषु गतेषु घातिकर्मणां स्थितिसत्त्वं पुरुषवेदस्या-ऽऽगालप्रत्यागालयोर्व्यवच्छेदं च वक्तुकाम आहखावणाद्धासखंसेसु संतं संखावासिअं घाईणं । आगालो पडिअागालोप्रालिदुगे य सेसगेवोच्छिन्ना ॥५६॥ (प्रार्यागीतिः)
क्षपणाद्धासंख्यांशेषु सत्त्वं संख्यवाषिकं घातिनाम् । श्रागालः प्रत्यागाल आवलिकाद्विके च शेषे व्यवच्छिन्नौ ।।५६।। इति पदसंस्कारः ।
'खवणाडा०' इत्यादि, 'क्षपणाद्धासंख्यांशेषु' अघातित्रयस्य संख्येयवर्षमात्रस्थितिबन्धप्रारम्भात् परं स्थितिखण्डपृथक्त्वेन सप्तनोकषायाणां क्षपणाद्धायाः संख्यातेषु बहुभागेषु गतेषु सत्स्वित्यर्थः, 'घातिना' स्त्रीवेदक्षपणाद्धाचरमसमये एव मोहस्य स्थितिसत्कर्मणः संख्यातवार्षिकत्वप्रतिपादनात् ज्ञानावरण-दर्शनावरणा-ऽन्तरायरूपाणां त्रयाणां कर्मणां 'सत्त्वं' स्थितिसत्कर्म संख्यवार्षिकं भवति, संख्येयवर्षप्रमितं जायते इत्यर्थः । उक्तं च कषायप्राभूतचूौँ -"तदो द्विदिखंडयपुधत्ते गदे सत्तण्हं णोकसायाणं खवणडाए संखेज्जेसु भागेसु गदेसु णाणावरणदसणावरण अंतराइयाणं संखेज्जवस्सहिदिसंतकम्मं जादा।" इति । ततः परमुत्तरोत्तरस्थितिघाते पूर्णे मोहनीयवद् ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामपि स्थितिसचं संख्येयगुणहीनं भवति, स्थितिसत्कर्मणः संख्येयवार्षिकत्वात् , अघातित्रयस्य च पूर्ववदसंख्येयगुणहीनं संजायते, स्थितिस कर्मणो-ऽसंख्येयवर्षप्रमाणत्वात् । उक्तं च कषायप्राभूतचूर्णी-"तदो पाए [घादिकम्माणं ] हिदिबंधे हिदिखंडए च पुण्णे पुण्णे हिदिबंधट्टिविसंतकम्माणि संखेज्जगुणहोणाणि,णामागोदवेदणीयाणं पुगणे डिदिखंडए असंखेज्जगुणहीणं ठिदिसंतकम्म।"
इति ।
___ 'आगालो' इत्यादि, आगालः प्रत्यागालश्च, उत्तरस्थस्य चकारस्य व्यवहितसम्बन्धत्वेनाऽत्र योजनात् 'आवलिकाद्विके' पुरुावेदस्य प्रथमस्थितौ आवलिकाद्वये 'शेषे' अवशिष्टे व्यवच्छिन्नौ भवतः । एतदुक्तं भवति-आगलनम्-आगालः, आपूर्वको गलिधातुः, “गल भक्षणे स्रावे च" ततः 'भावोकत्रोंः' (सिद्धहेम० ५-३-१८) इत्यनेन भावे घन , द्वितीयस्थितितः कर्मप्रदेशानामुदीरणाप्रयोगेणोदये आगमनमित्यर्थः । न्यगादि च कर्मप्रकृतिचूर्णी सम्यक्त्वोत्पादाधिकारे-"जं वितीयठितीतो आणेउ पोग्गले छुभति; तस्स आगाल त्ति सग्णा।” इति । प्रत्यागलनं प्रत्यागालः, प्रथमस्थितितः कर्मप्रदेशानामुद्वर्तनया द्वितीयस्थिती गमनमित्यर्थः । पुरुषवेदस्याऽऽगालप्रत्यागालौ तावत् प्रवर्तेते, यावत् प्रथमस्थितेरावलिकाद्वयं शेषं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org