________________
८२] खरगसेढी
[ गा० ३-५५ 'असंख्यगुणः' असंख्येयगुणः स्थितिबन्धो भवति, तस्या-ऽसंख्येयवर्षप्रमाणत्वात् । 'ततः' नामगोत्रस्थितिबन्धतः 'तृतीयस्य' वेदनीयकर्मणः 'खलु' खलुवाक्यालङ्कारे स्थितिवन्धो-ऽसंख्येयवर्षप्रमितो जायमानोऽपि विशेषाधिको भवति । उक्तं च कषायप्राभृतचूर्णी-सत्तण्हं णोकसायाणं पढमसमयसंकामगस्स हिदिबंधो मोहणीयस्स थोवो. णाणावरण दसणावरण अंतराइयाणं हिदिबंधो संखेज्जगुणो, णामागोदाणं डिदिबंधो असंवेज्जगुणो वेदणीयस्स हिदिबंधो विसेसाहिओ." इति । पूर्ववत् स्थितिबन्धो घातिकर्मणां प्रतिस्थितिघाताद्ध संख्येयगुणहीनो जायते, नामगोत्रवेदनीयानामसंख्येयगणहीनो भवति । अभ्यधायि च कषायप्राभूतचू -"हिदिबंधो णामा-गोद-वेदणीयाणं असंखेज्जगुणहीणो, घादिकम्माणं हिदिवंधो संखेज्जगुणहीणो।" इति ।
___ अथ सप्तनोकषायक्षपणाप्रथमसमये स्थितिसत्त्वाऽल्पबहुत्वं निगदति-ठिइसतं' इत्यादि, "स्थितिसत्त्वं' स्थितिसत्कर्म 'मोहस्य' मोहनीयकर्मणः 'अल्पं स्तोकं भवति, उपरि भणिष्यमाणकर्मणां स्थितिसत्त्वस्य प्रभूतत्वात् , तच्च संख्येयवार्पिकं भवति, ततः घातिनां' मोहनीयस्यामिहितत्वात् ज्ञानावरण-दर्शनावरणा-ऽन्तरायरूपाणां कर्मणां स्थितिसत्त्वमसंख्यगणं भवति, तत्या-ऽसंख्येयवर्षप्रमाणत्वात् । 'ततः' घातित्रयस्थितिवन्धतः 'विंशतिकयोः' नामगोत्रयोः स्थितिसत्त्वमसंख्येयवर्षप्रमाणं भवदप्यसंख्येयगणं भवति । 'ततः' नामगोत्रस्थितिसच्चात् 'तृतीयस्य' वेदनीयकर्मणः खलु विशेषाधिकं स्थितिसत्त्वं भवति । उक्तं च कषायप्राभूतचूर्णी"ताधे ठिदिसंतकम्मं मोहणीयस्स थोवं, तिर्ह घादिकम्माणं हिदिसंतकम्ममसंखेज्जगुणं, णामागोदाणं हिदिसंतकम्ममसंखेज्जगुणं, वेदणीयस्स हिदिसंतकम्म विसेसाहियं ।” इति ।
स्थितिखण्डपृथक्त्वे गते नाम-गोत्र-वेदनीयानां स्थितिबन्धमभिधातुमना आह-'खवणहासंखंसे' इत्यादि, 'क्षपणाद्धासख्यांशे' सप्तनोकषायक्षपणाप्रारम्भतः परं स्थितिखण्डपृथक्त्वेन हास्यषटकपुरुषवेदसत्कक्षपणाद्धायाः संख्येयतमे भागे गते सतीत्यर्थः 'अघातिनाम' नामगोत्र वेदनीयानां 'संख्यवार्षिकः' संख्यातवर्षप्रमाणो 'बन्धः' स्थितिबन्धो भवति, प्रागेतेषां कर्मणामसंख्ययवर्षप्रमितः स्थितिबन्ध आसीत्, सम्प्रति संख्येयर्षप्रमाणो भवतीति फलितार्थः । उक्तं च कषायप्राभृतचूर्णी- "तदो द्विदिखंडयपुधत्ते गदे सत्तण्हं णोकसायाणं खवणडाए संखेज्जदिभागे गदे णामा-गोद-वेदणोयाणं संखेज्जाणि वस्साणि द्विदिबंधो।" इति । इत्थं सर्वेषां कर्मणां स्थितिबन्ध इदानीं संख्येयवर्षमात्रो जायते । तथा चोत्तरोत्तरः स्थितिबन्धः संख्येयगुणहीनो भवति ॥ ५३-५४-५५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org