________________
अनिवृत्तिकरणाधिकरः
[८१
सप्तकषायक्षपणा ]
तो वीसाण असंखगुणो तो तइयस्स खलु विसेसहियो। ठिइसंतं मोहस्सप्पं घाईणं असंखगुणं ॥ ५४॥ तो वीसाण असंखगुणं तो तइयस्स खलु विसेसहिअं। खवणद्धासंखंसे-ऽघाईणं संखावासिगो बंधो ॥५५॥
अनन्तरकाले क्षपयति सप्तनोकषायानल्पबहुत्वं तु ।। मोहस्य स्थितिबन्धः स्तोको घातिनां संख्यगुणः ॥ ५३॥ ततो विंशतिकयोरसंख्यगुणस्ततस्तृतीयस्य खलु विशेषाधिकः । स्थितिसत्त्वं मोहस्या.ऽल्पं घातिनामसंख्यगुणम ॥ ५४॥ ततो विंशतिकयोरसंख्यगुणं ततस्तृतीयस्य खलु विशेषाधिकम् । क्षपणाद्धासंख्यांशे ऽघातिनां संख्यवार्षिको बन्धः ॥५५ ।। इति पदसंस्कारः ।
'से काले' इत्यादि 'अनन्तरकाले स्त्रीवेदक्षपणाया अनन्तरसमये 'सप्तनोकषायान्' स्त्रीनपुंसकवेदयोः क्षीणत्वात् हास्यपटक-पुरुषवेदलक्षणान् 'क्षपति' युगपत्क्षपयितुमुपक्रमते । उक्त च कषायप्राभूतचूर्णी-“से काले सत्तण्हं णोकसायाणं पहमसमयसंकामगो।" एवं सप्त. तिकाचूणांवपि-"तओ सत्त वि नोकसाए जुगवं खवेतुमाढवेति ।" इति । सप्ततिकाचूणिकारादीनां मतेनाऽतः प्रभृति हास्यपट कं पुरुषवेदे न संक्रमयति, किन्तु संज्वलनक्रोधे । तथा चाऽत्र सप्ततिकाचूर्णिः-'तओ पभिति छण्णोकसाया पुरिसवेदम्मि न संकमंति, कोहसंजलणाए संकमंति।" एवमुपाध्यायपुङ्गवैरप्युक्तम्-"ततः षड्नोकषायान् युगपत् क्षपयितुमारभते । ततः प्रभृति तेषामुपरितनस्थितिगतं दलिकं पुवेदे न संक्रमयति, अपि तु संज्वलनक्रोधे।” इति । कषायप्राभूतचूर्णिकारादीनामभिप्रायेण पुनरन्तरकरणक्रियानिष्ठातः प्रभृति हास्यषटकं क्रोधे एव संक्रमयति । तथा च तद्ग्रन्थ:"अन्तरादो दुसमयकदादो पाये छण्णोकसाये कोहे संछुहदि, ण अण्णम्हि कम्हि वि।" इति ।
अकारस्य लुप्तत्वात् 'अप्पबहुअं य' ति 'अल्पबहुत्वं च' चकारः समुच्चये, तदानीं च स्थितिबन्धस्थितिसचयोः स्तोकबहुत्वं वक्तव्यमिति शेषः । आदौ तावत् स्थितिबन्धा-अल्पबहुत्वमभिधातुकाम आह–'मोहस्स' इत्यादि, 'मोहस्य' मोहनीयकर्मणः स्थितिबन्धः 'स्तोकः' अल्पः, उपरि मण्यमानकर्मणां स्थितिबन्धस्य प्रभूतत्वात् । स च संख्येयवर्षप्रमाणः। ततः 'घातिनां' मोहनीयस्योक्तत्वात् ज्ञानावरण दर्शनावरणा-ऽन्तरायलक्षणानां कर्मणामित्यर्थः, स्थितिबन्धः संख्येयवर्षमात्रो भवन्नपि 'संख्यगुणः' संख्येयगुणो भवति । 'तो' इत्यादि, 'ततः' घातित्रयस्य स्थितिबन्धाद् ‘विंशतिकयोः' विंशतिसागरोपमकोटिकोटिस्थितिकयो मगोत्रयोरित्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org