________________
50]
[ गाथा-५२-५३
क्खवणडाए संखेज्जदिभागे गदे णाणावरण- दंसणावरण-अंतराइयाणं तिहं घादिकम्माणं संखेज्जवस्सद्विदिगो बंधो ।" इति । इत ऊर्ध्वं ज्ञानावरण- दर्शनावरणाऽन्तरायाणां स्थितिबन्धः प्रत्यन्तमुहूर्त संख्येयगुणेन हीनो हीनतरो भवति ।। ५१ ।।
स्त्रीवेदस्य निःशेषतः क्षपणां मोहस्य च स्थितिसत्त्वमभिधित्सुराह—
aaढी
तत्तो ठिहखंडपुहुत्तेणं इत्थं खवेइ णिस्सेसं ।
ता संतं मोहस्य संखवासपमिअं होई ॥ ५२ ॥
ततः स्थितिखण्डपृथक्त्वेन स्त्रियं क्षपयति निश्शेषम् । तदा सत्त्वं मोहस्य संख्यवर्षप्रमितं भवति ॥ ५२॥ इति पदसंस्कारः ।
1
'तत्तो' इत्यादि, 'ततः ' घातित्रय सत्कस्थितिबन्धस्य संख्येयवर्षमात्रत्वभवनात् स्थितिखण्डपृथक्त्वेन स्त्रीवेदक्षपणाद्धायाः शेषेषु संख्येयेषु बहुभागेषु गतेषु 'स्त्रियं' स्त्रीवेदं 'निःशेषं' सर्वात्मना 'क्षपयति' विनाशयति । ततः परं सत्कर्मणि स्वस्वरूपेण स्त्रीवेदस्यैकमपि दलं न विद्यते इत्यर्थः । उक्त ं च कषायप्राभृतचूर्णो – “तदो डिदिखंडयपुधत्तेण इत्थवेदस्स जं ठितिसंतकम्मं तं सव्वमागाइदं ।" इति । गुणितकर्मा शस्य शीघ्रं क्षपणायोद्यतस्य जीवस्य स्त्रीवेदस्योत्कृष्ट प्रदेसंक्रमो भवति । उक्तं च कर्मप्रकृतिचूर्णो -- "अट्ठवासिगो सत्तमासमहिओ खवणाए अम्भुट्ठितो सो, 'सव्वसंक्रोभे' इति गुणियकम्मं सिगो चरिमसंच्छ्रो वट्टमाणो इत्थिवेदस्स उक्को सपदेस संकमगो |" इति ।
Jain Education International
तदानीं मोहनीयकर्मणः स्थितिसत्त्वं निगदितुकाम आह - 'ताहे' इत्यादि, 'तदा' यस्मिन् समये स्त्रीवेदः सर्वथा क्षपितस्तस्मिन् समये इत्यर्थः, 'मोहस्य' मोहनीयकर्मणः 'सत्र ' स्थितिसत्कर्म संख्यवर्ष प्रमितं' संख्यातवर्षप्रमाणं 'भवति' जायते । उक्तं च कषायप्राभृतचूर्णो - "ताधे चेव मोहणीयस्स द्विदिसंतकम्मं संखेज्जाणि वस्त्राणि ।” इति । अतः परं प्रतिस्थितिखण्डेन मोहनीय कर्मणः संख्यातगणहीनं स्थितिसचं जायते, शेषाणां कर्मणां पुनरसंख्येयगुणहीनं भवति, यतो ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तराय- नाम-गोत्राणां स्थितिसत्त्वमद्यापि पल्योपमा ऽसंख्येयभागप्रमाणं विद्यते ।। ५२ ।।
स्त्रीवेदक्षपणाया अनन्तरसमयात् पुरुषवेदहास्यषट्कलक्षण सप्तनोकषायान् क्षपयितुमारभते sa aayari स्थितिबन्ध स्थितिसत्त्वयोरल्पबहुत्वं च प्ररुरूपयिषुराह -
से काले खवए सत्तणोकसाये ऽप्पबहुअं य ।
मोहस्स द्विबंधी थोवो घाई संखगुणो ॥ ५३ ॥ (उपगीतिः)
-
For Private & Personal Use Only
www.jainelibrary.org.