________________
स्त्रीवेदक्षपणा ]
अनिवृत्तिकर णाधिकारः स्तोकं प्रदेशाग्रं पुरुषवेदे संक्रम्य क्षपयति, ततोऽसंख्येयगुणं द्वितीयसमये क्षपयति । एवंक्रमेण 'स्थितिखण्डेषु' स्थितिखण्डसहतेषु 'गतेषु' जितेषु सत्सु 'पण्ड' सवें नपुंसकवेद 'क्षपयति' नपुंसकवेदक्षपणाद्धाचरमसमये नपुंसकवेदं पुरुषवेदे सर्वसंक्रमण संक्रम्य सर्वात्मना विनाशयतीत्यर्थः । उक्तं च कषायप्राभूतचूर्णी-"तदो संग्वेज्जेसु हिदिखंउयसहस्सेसु गदेसु णवुसयवेदो संकामिज्जमाणो संकामिदो।" सप्ततिकाचूण्योदो नपुंसकवेदं परप्रकृतिषु संक्रम्य विनाशयति,न केवलं पुरुषवेदे इत्युक्तम् । तथा च तद्ग्रन्थः- 'अंतरकरणस्स उवरिमठितिदलियं उच्चटिज्जमाणं उव्वटिजमाणं पलिओवमस्स असंखेज्जइभागमेत्तं जायं, तओतंपरपगईसु असंखेज्जगुणेणं संछुब्भमाणं संभमाणं अंतोमुहुत्तेण संछुढं भवति । एवं नपुंसगवेदो खीणो।" इति । एवं कर्मप्रकृतिटीकायां श्रीमदुपाध्यायपादैरपि न्यगादि-."अन्तरकरणं च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुहलनविधिना क्षपयितुमारभते, तच्चाऽन्तर्मुहूर्तमात्रेण पल्योपमाऽसंख्येयभागमात्रं भवति । ततः प्रभृति बध्यमानासु प्रकृति गुणसंक्रमेण तद्दलिकं प्रक्षिपति। तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहूर्तमात्रेण निःशेष क्षीयते ।" इति । ___तदानीं चरमप्रक्षेपे शीघ्रं क्षपणायोद्यतस्य गुणितकर्मा शस्य जन्तोनपुंसकवेदस्योत्कृष्टप्रदेशसंक्रमो भवति । उक्तं च कर्मप्रकृतिचूर्णी- "अहवासिगो सत्तमासब्भतिगो, तस्स खवणाए अब्भुष्ठितस्स 'पपुसगे सञ्चसंकमेण' णपुंसगवेदस्स सव्वसंछोभे गुणितकंमंसितस्स उक्कोसो पदेससंकमो लभति ।" इति ।
'तत्तो' इत्यादि, 'ततः' नपुसकवेदक्षपणासमनन्तरं 'स्त्रियं स्त्रीवेदं क्षपयति, 'खिवेइ' इति पदस्य देहलीदीपकन्यायेना-त्राऽपि सम्बन्धात् । तत्र स्त्रीवेदक्षपणाद्धाप्रथमसमये स्त्रीवेददलं स्तोकं क्षपयति, ततो द्वितीयसमये-ऽसंख्येयगुणं क्षपति,ततोऽपि तृतीयसमयेऽसंख्येयगुणं क्षपयति । एवंक्रमेण प्रतिसमयमसंख्येयगुणकारेण क्षपयति । स्त्रीवेदक्षपणारम्भसमयादभिनवः स्थितिघातः स्थितिबन्धो रसघातश्चारभ्यन्ते । 'क्षपणाद्धासंख्यांशे' प्रक्रमात् स्त्रीवेदक्षपणाद्धायाः संख्येयतमे भागे गते-नपुंसकवेदक्षयस्या-ऽनन्तरसमयात् प्रभृति स्त्रीवेदक्षपणाद्धाचरमसमयं यावद् यो-ऽन्तर्मुहूर्तप्रमाणः कालः, स स्त्रीवेदक्षपणाद्धा व्यपदिश्यते, तस्याः संख्येयतमे भागे नपुंसकवेदक्षयात् परं स्थितिखण्डपृथक्त्वेन ब्रजिते इत्यर्थः, 'त्रिघातिनां' त्रयाणां घातिकर्मणां-ज्ञानावरण-दर्शनावरणाऽन्तरायाणामित्यर्थः, 'बन्धः' स्थितिबन्धः 'संख्यवर्षाः' संख्येयवर्षप्रमाणो भवति । प्राग य एतेषां कर्मणां स्थितिबन्धो-ऽसंख्यवर्षप्रमाण आसीत् , सो-ऽसंख्यगुणहान्या हीयमानः सन् सम्प्रति संख्यातवार्षिको जायते इति फलितार्थः । उक्तं च कषायप्राभृतचूर्णी"तदो से काले इत्थिवेदस्स पढमसमयसंकामगो, ताधे अएणं हिदिखंडयमण्णमणुभागखंडयमण्णो हिदिबंधो च आरडाणि । तदो हिदिखंडयपुधत्तेण इत्थिवेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.