________________
रससक्रमाल्पबहुत्वम् ]
निवृत्तिकरणाधिकारः
[ ७५
'रससंकमो' इत्यादि, रससंक्रमस्तु' तुः पुनरर्थे, मोहनीय कर्मणो ऽनुभाग संक्रमः पुनः 'खण्डे' एकवचननिर्देशाद् एकस्मिन् रसखण्डे 'पूर्णे' निष्ठां गते 'अनन्तगुणहीनः ' प्राक्तना - ऽनुभागसंक्रमतो ऽनन्तगुणहीनो भवति, नार्वाक्, रसघाताद्धाया अन्तर्मुहूर्त प्रमाणत्वात् । रसखण्डं यावन घातयति, तावदनुभाग संक्रमस्तुल्यो भवति । ततो ऽन्यद् रसखण्डं घातयितुमुपक्रमते तस्मिन्नपि घातिते सत्यनुभागसंक्रमो ऽनन्तगुणहीनो जायते, ततोऽर्वागनुभागसंक्रमः सदृशो जायते । भावार्थः पुनरयम्-यावद्विवक्षिता ऽनुभागखण्डं परिसमाप्तं न भवति, तावदनुभाग संक्रमः सदृशो भवति । तस्मिन्ननुभागखण्डे परिपूर्णे ऽन्यदनुभागखण्डं प्रारभ्यते, तदा पूर्वतो ऽनन्तगुणहीनोऽनुभागसंक्रमो भवति, प्राक्तनाऽनुभागखण्डविनाशेना-ऽनुभागसत्कर्मणो ऽनन्तगुणहीनत्वसम्पा-दनात् । सोऽपि चैकादृक्षस्तावत् प्रवर्तते, यावदनुभागखण्डं निष्ठां न याति । कथमेतदवसीयते ? इति चेद् - उच्यते, रसघातकालस्याऽन्तर्मुहूर्तमात्रत्वेनाऽन्तर्मुहूर्तं यावदेकादृशोऽनुभासंक्रमो जायते, ततः परमभिनवरसघातारम्भे पूर्वतो ऽनन्तगुणहीनो ऽनुभागसंक्रमः प्रवर्तते, प्राक्तनाऽनु-भागखण्डविनाशेनानुभागसत्कर्मणोऽनन्तगुणहीनत्वसम्पादनात् । ततः परमनुभागसंक्रमः सदृशो भवन् रसघाताद्धायां पूर्णायामनन्तगुणहीनो भवति । उक्तं च कषायप्राभृतचूण– “संकमो जाव अणुभागखंडयमुक्कीरेदि, ताव तत्तिगो तत्तिगो अणुभागसंकमो । अण्णम्हि अणुभागखंडए आदते अनंतगुणहोणो अणुभागसंकमो ।" इति ।
'से काले से काले' त्ति 'अनन्तरकाले ऽनन्तरकाले' पूर्वपूर्वत उत्तरोत्तरसमये इत्यर्थः, 'प्रदेशबन्धः' स्थितिरसनिरपेक्षद लिकसंख्याप्रधानरूपो बन्धचतुर्विधो वृद्धो हीनो वा संभवति । चकारः समुच्चयार्थः, स चावस्थितोऽपि प्रदेशबन्धः संभवतीति संचिनोति, योगस्य चतुर्विधवृद्धिहान्यवस्थान संभवेन तत्प्रयोज्य प्रदेशबन्धस्य चतुर्विधवृद्धिहान्यवस्थानत्वे विरोधाभावात् । इदमुक्तं भवति - अन्तरकरणे कृते सति कचिज्जीवो विवक्षितसमये मोहस्य यावत् प्रदेशाग्रं बध्नाति ततो ऽनन्तरसमये योगानुसारेणाऽसंख्येयभागवृद्धं वा संख्येयभागवृद्धं वा संख्येयगुणवृद्धं वा-ऽसंख्येयगुणवृद्धं वा बध्नाति । एवमन्यो योगानुरूपम संख्येय भागहीनं वा संख्येयभागहीनं वा संख्येयगुणहीनं वा संख्येयगुणहीनं वा बध्नाति । यद्वाऽपरो - ऽवस्थितयोगेन तावदेव बध्नाति । उक्तं च कषायप्राभृते - " से काले से काले भज्जो बंधो पदेसग्गे ।" तथैव तच्चूर्णावपि - "पदेसबंधो चउव्विहाए वड्डीए चउव्विहाए हाणीए अवट्ठाणे च भजियव्वों" । इति ॥ ४८ ॥
उत्तरोत्तरसमये प्रदेशवन्धमभिधाय प्रदेशोदयं प्रदेशसंक्रमं चाभिधातुकाम ग्रहसे काले से काले पसउदो असंखगुणो । से काले से काले दलसंकमणं असंखगुणं ॥ ४६ ॥ (उपगीतिः )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org