________________
७६ ]
गढी
अनन्तरकाले ऽनन्तरकाले प्रदेशोदयो ऽसंख्यगुणः । अनन्तरकाले ऽनन्तरकाले प्रदेशसंक्रमणमसंख्यगुणम् ||४६ ॥ इति पदसंस्कारः ।
[ गाथा-४६-५०
'से काले' इत्यादि, 'अनन्तरकाले - ऽनन्तरकाले' उत्तरोत्तरसमये इत्यर्थः, 'प्रदेशोदयो' मोहनीयकर्मणः प्रदेशोदयो - Sसंख्यगुणो भवति । इदमुक्तं भवति - अन्तरकरणे कृते सति प्रथमसमये मोहनीयकर्मणः प्रदेशोदयः स्तोको भवति, ततो द्वितीयसमये - ऽसंख्येयगुणो भवति, ततो-पि तृतीयसमये संख्येयगुणो जायते । एवमुत्तरोत्तरसमये वक्तव्यम्, गुणश्रेण्योत्तरोत्तरनिषेकेऽसंख्येयगुणदलिकस्य रचितत्वात् । अभाणि च कषायप्राभृतचूर्णो — “ पदेसुदयो अस्सि समए थोवो, से काले असंखेज्जगुणो, एवं सव्वत्थ ।" इति ।
'से काले' इत्यादि, अन्तरकरणे कृते 'अनन्तरकालेऽनन्तरकाले' उत्तरोत्तरसमये 'दलसंक्रमणं' प्रदेशसंक्रमो ऽसंख्यगुणो भवति । एतदुक्तं भवति - अन्तरकरणे कृते सति विवक्षितसमये मोहनीयस्य यावत्प्रदेशाग्रं संक्रम्यते, ततो द्वितीयसमये ऽसंख्येयगुणं संक्रम्यते, ततोऽपि तृतीयसमयेऽसंख्येयगुणं संक्रम्यते, एवमुत्तरोत्तरसमयेऽसंख्येगुणक्रमेण प्रदेशसंक्रमो वक्तव्यः । अभ्यधायि च कषायप्राभृते " गुणसेढी असंखेज्जा च पदेसग्गेण संकमो उदओ ।" इति । तथैव तच्चूर्णावपि - " पदेसुदओ अस्सिं समये थोवो, से काले असंखेज्जगुणो, सव्वत्थ । जहा उदओ, तहा संकमो वि कायव्वो ।" इति । अत्र दलसंक्रमशब्देन यासां प्रकृतीनां गुणसंक्रमो भवति, तासां दलसंक्रमः प्रतिसमयमसंख्येयगुणकारेण भवतीति ज्ञातव्यम् । यासां प्रकृतीनां पुनर्यथाप्रवृत्तसंक्रमः प्रवर्तते, तासां श्रेणिवर्जस्थाने प्रदेशसंक्रमः प्रतिसमयमसंख्येयगुणो न भवतीति सुप्रतीतम् । श्रेणौ तु यथा-ssगमं भावनीयः ॥ ४९ ॥
साम्प्रतं वर्तमानभाविलक्षण कालद्वयमाश्रित्याऽनु भागबन्धोदयौ विभणिपुराह
Jain Education International
―――――
संपइ बहुगो उदयो तत्तो बंधो ऽत्थि ताउ अणुभागे । से काले उदयो तत्तो बंधो ऽणंतगुणहीणो ॥ ५० ॥
सम्प्रति बहु उदयस्ततो बन्धोऽस्ति तस्मादनुभागे ।
श्रनन्तरकाले उदयस्ततो बन्धो ऽनन्तगुणहीनः || ५० इति पदसंस्कारः ।
'संपइ' इत्यादि, 'अणुभागे' त्ति पदं उमस्कमणिन्यायेन सर्वत्र सम्बध्यते । 'सम्प्रति' अन्तरकरणे कृते सति विवक्षितवर्तमानसमये इत्यर्थः, 'अनुभागे' मोहस्या- ऽनुभागविषय उदयो 'बहुक:' प्रभूतो भवति, 'ततः' निरुक्तसमय सत्कानुभागोदयात् तदानीमेवा - ऽनुभागविषयो बन्धो
For Private & Personal Use Only
www.jainelibrary.org