SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ७४ ] खगढी [ गाथा- ४७ तथैव तच्चूर्णावपि - "विहासा, जहा - पदेसग्गेण बंधो थोवो, उदयो असंखेगुणो, संकमो असंखेज्जगुणो |" इति । नन्वनुभागबन्धोदयौ किं स्वस्थाने तुल्यौ वाऽधिको वा हीनौ वा प्रवर्तेते ? इति जिज्ञासानोदित आह-' -' से काले' इत्यादि 'अनन्तरकालेऽ- नन्तरकाले ' विवक्षितसमयादनन्तरो परितनसमये ततः परं तदनन्तरोपरितनसमये, उत्तरोत्तरसमये इत्यर्थः मोहनीयस्य रसबन्धोदयौ अनन्तगुणहीनौ भवतः, पूर्वपूर्वसमयत उत्तरोत्तरसमये ऽनुभागबन्धोऽनन्तगुणहीनो भवति । एवं पूर्वपूर्व समयत उत्तरोत्तरसमयेऽनन्तगुणहीनो ऽनुभागोदयः प्रवर्तत इत्यर्थः । इदमत्र हृदयम्अन्तरकरणे कृते सति प्रथमे समये पोहनीयस्य यावाननुभागो बध्यते, ततो ऽनन्तरभ / विसमयेऽनन्तगुणहीनो ऽनुभागो बध्यते ततस्तृतीयसमयेऽनन्तगुणहीनो ऽनुभागो बध्यते, ततश्चतुर्थसमयेऽनन्तगुणहीनो बध्यते, विशुद्धेरनन्तगुणत्वाद् । एवमुत्तरोत्तरसमये वक्तव्यम् । तथाऽन्तरकरणे कृते सति प्रथमसमये यावाननुभाग उदेति, ततोऽनन्तगुणहीनो ऽनुभागो द्वितीयसमये उदेति, ततस्तृतीयसमये ऽनन्तगुणहीन उदेति, ततोऽपि चतुर्थसमये ऽनन्तगुणहीन उदयते । एवमुत्तरोत्तरसमये निश्च तव्यः । उक्तं च कषायप्राभृते "बंधोदएहिं णियमा अणुभागो होदि पंतगुणहोणो x x x x॥१॥ गुणसेढी अनंतगुणेणूणाए वेदगो दु अणुभागे × × × × ॥२॥ गुणदो अनंतगुणहीणं वेदयदि नियमसा दुअणुभागे ।×××× ॥३॥” इति । तथैव कषायप्राभृतचूर्णावपि - "विहासा- अस्सिं समये अणुभागबंधो बहुओ, सेकाले अनंतगुणहोणो । एवं समये समये अनंतगुणहीणो । एवमुदओ वि काव्वो । अस्सिं समए अणुभागदयो बहुगो से काले अनंतगुणहीणो, एवं `सव्वत्थ ।” इति । इदन्त्ववधेयम् अनेन क्रमेण प्रतिसमयं हीयमानो ऽनुभागो यथाप्रवृत्तकरणप्रथमसमयात्प्रभृति बध्यते उदेति च, तथापि मन्दबुद्धिजनानां स्मृत्यै अत्राप्यभिहितः ॥४७॥ उत्तरोत्तरसमयेऽनु भागबन्धोदयौ व्याहृत्याऽनुभागसंक्रमं प्रदेशवन्धं चाऽभिधित्सुराह— रससंकमो उ खण्डे पुराणे होज्जइ प्रणतगुणहीणो । से काले से काले पअसबंधी चउविहो य ॥ ४८ ॥ Jain Education International रस संक्रमस्तु खण्डे पूर्णे भवत्यनन्तगुणहीनः । अनन्तरकाले ऽनन्तरकाले प्रदेशबन्धञ्चतुविर्धश्च ॥ ४८ ॥ इति पदसंस्कारः । For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy