________________
प्रदेशबन्धा दीनामल्पबहुत्वम ] अनिवृत्तिकरणाधिकारः
अथ प्रतिज्ञाताल्पबहुत्वमुत्तरोत्तरसमये ऽनुभागबन्धोदयौ च वक्तुकाम आह
होन्ति पलेसे कमसो, बंधउदयसंकमा असंखगुणा। से काले से काले रसवंधुदया अणंतगुणहीणा ॥४७॥ (गीतिः)
भवन्ति प्रदेशे क्रमशो बन्धोदयसंक्रमा असंख्यगुणाः ।
अनन्तरकाले-ऽनन्तरकाले रसबन्धोदगावनन्तगुणहीनौ ॥४७॥ इति पदसंस्कारः। 'होन्ति' इत्यादि, 'प्रदेशे' प्रदेशविषया मोहनीयकर्मणो बन्धोदयसंक्रमाः ‘क्रमशः' क्रमेण असंख्यगुणा भवन्ति । तथाहि-अन्तरकरणे कृते सति विवक्षितसमये पुरुषवेदादीनां बध्यमानप्रकृतीनां यावत् प्रदेशाग्रं बध्नाति, ततस्तदानीमेवोदयेना-ऽसंख्येयगुणं दलमनुभवति, किं कारणम् ? इति चेत्, उच्यते-विवक्षितसमये एकसमयप्रबद्धदलिक बन्धे वर्तते, उदीरणायां पुनरसंख्येयसमयप्रबद्धमानं दलिकं वर्तते, तदानीमसंख्येयसमयप्रबद्धोदीरणायाः प्रवर्तमानत्वात् । उदीरणातथाऽप्युदये दलिकमसंख्येयगुण भवति, गुणश्रेण्या प्रभूतदलिकस्य रचितत्वात् । अतो बन्धतः सुतरामुदये प्रदेशाग्रमसंख्येयगुणं सिध्यति । ततो-ऽपि संक्रम्यमाणं दलमसंख्येयगुणं भवति । अत्र संक्रमशब्देन गुणसंक्रमो यथाप्रवृत्तसंक्रमश्च ग्राह्यः । तेन यासां नपुंसकवेदादीनां प्रकृतीनां . गुणसंक्रमोऽस्ति, तासामुदयमानप्रदेशतो गुणसंक्रमेण संक्रम्यमाणं दलमसंख्येयगुणं भवति । यासां पुरुषवेदसंज्वलनक्रोधादीनां प्रकृतीनां पुनर्यथाप्रवृत्तसंक्रमो-ऽस्ति, तासां प्रकृतीनामुदयमानदलतो यथाप्रवृत्तसंक्रमेण संक्रम्यमाणं दलिकमसंख्येयगुणं भवति । ननु गुणसंक्रमभागहारस्योत्कर्षणापकर्षणभागहारतो-ऽसंख्येयगुणहीनत्वेनोदयमानदलिकतो गुणसंक्रमेण संक्रम्यमाणं दलिकमसंख्येयगुणमस्तु, यथाप्रवृत्तसंक्रमेण संक्रम्यमाणं दलिकमुदयगतदलिकतोऽसंख्यातगुणं कथं घटते ? यथाप्रवृत्तसंक्रमभागहारस्योत्कर्षणापकर्षणभागहारतो-ऽसंख्येयगुणत्वात् । उक्तं च कषायप्राभृतचूर्णी-"ओकडडुक्कड्डणाए कम्मरस अवहारकालो थोवो, अधापवत्तसंकमेण कम्मरस अवहारकालो असंखेज्जगुणो।" इति । यथाप्रवृत्त संक्रमभागहारस्य प्रभूतत्वे संक्रम्यमाणं दलमुदयदलिकतः स्तोकं संभवतीति चेत्, उच्यते-समीचीनमेतद्, किन्तूत्कर्षणा-ऽपकर्षणभागहारेण विभज्य यावद्दलमपवर्तयति, तत्सर्व गुणश्रेणौ न निक्षिपति, अपि तु तदसंख्येयभागमात्रमेव । यथाप्रवृत्तसंक्रमभागहारेण पुनर्विभज्यगृहीतं सर्व दलं संक्रमयति । तेन यथाप्रवृत्तसंक्रमभागहारस्य प्राधान्येनोदयगतदलिकतो यथाप्रवृत्तसंक्रमेण संक्रम्यमाणं दलमसंख्येयगुणं सिध्यति । न्यगादि चेदमल्पबहुत्वं कषायप्राभृते
"बंधेण होइ उदओ अहिओ उदएण संकमो अहिओ। गुणसेढी असंखेज्जा च पदेसग्गेण बोडव्वा ॥१॥” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org