________________
७२ ]
[ गाथा-४६
अन्तरकरणे निष्पादिते घातिकर्मणामनुभागसत्कर्म सूक्ष्मैकेन्द्रियतोऽनन्तगुणहीनं जायते । न्यगादि च कर्मप्रकृतिचूर्णौ – खवयगस्स अणुभागो जाव अंतरकरणं न कीरति, ताव 'घाती'' सव्वघातिदेसघातोणं सुहमए गिंदियस्स अणुभागसंतकम्मातो अनंतगुणितो होइ | अंतरकरणे कते सुहुमस्त अणुभागतो हेट्ठा भवति |" इति ॥४४-४५॥ यन्त्रकम्
गढी
अन्तरकरणे कृते सप्त पदार्था युगपत् प्रवर्तन्ते । ( गाथा-४४-४५ )
(१) मोहनीयस्य सख्यातवार्षिक स्थितिबन्धः । (२) मोहनीयस्यैकस्थानको ऽनुभागबन्धः । (३) मोहनीयस्यैकस्थानको ऽनुभागोदयः । (४) मोहनीयप्रकृतीनामानुपूर्वी संक्रमः ।
(५) संज्वलनलोभस्याऽसंक्रमः ।
(६) पट्स्वावलिकासु गतासु नूतनबद्ध कर्मणामुदीरणा ।(७) नपुंसक वेदस्य क्षपणा । घातिनामनुभागसत्त्वं सूक्ष्मै केन्द्रियतोऽनन्तगुणहीनम् ।
नन्वन्तरकरणे कृते सति प्रथमसमयादारभ्य मोहनीयकर्मणो ऽनुभागविषयको बन्ध उदयः संक्रमच परस्परं किं समा हीना अधिका वा भवन्ति ? इति शङ्काव्युदासायव्याहरतिकयअंतराण मोहस्स बंधुदयसंकमा रसे होन्ति ।
कपसो अांतगुणसेढीए ग्रह ते दले भणिमो ॥ ४६ ॥
कृतान्तराणां मोहस्य बन्धोदयसंक्रमा रसे भवन्ति ।
क्रमशोऽनन्तगुणश्रेण्या-ऽथ तान् दले भणामः || ४६ ।। इति पदसंस्कारः । 'कयअंतराण' इत्यादि, कृतान्तराणां' निष्पादिता - ऽन्तरकरणानां जीवानां 'रसे' विषयसप्तमीयम्, ततश्चाऽयमर्थः - अनुभागविषया 'मोहस्य' मोहनीय कर्मणो बन्धोदयसंक्रमाः 'क्रमशः ' क्रमेण अनन्तगुणश्रेण्या भवन्ति । एतदुक्तं भवति - अन्तरकरण क्रियासमाप्तितः परं विवक्षितसमये मोहस्य यावाननुभागो बध्यते, ततस्तदानीमेवा ऽनन्तगुणो ऽनुभाग उदयेना - ऽनुभूयते, सत्तागतपुरातना-ऽनुभागस्या ऽनन्तगुणत्वेनोदयेना-ऽनुभूयमानस्या - ऽनन्तगुणत्वे विरोधाभावात् । ततोऽप्यनन्तगुणो ऽनुभागः संक्रम्यते । कुतः ? इति चेत्, उच्यते - क्षपकश्रेणौ सत्तागता -ऽनुभागोऽनन्तगुणहीनीभूयोदये श्रागच्छति, संक्रमे तु सत्तागतो ऽनुभागो यावान् भवति, तावान् परप्रक्रतिषु संक्रामति । तेनोदयतः संक्रमेऽनुभागोऽनन्तगुणो भवति । यदुक्तं कषायप्राभृते"बंघेण होइ उदओ अहिओ उदएण संकमो अहिओ । गुणसेढी अनंतगुणा बोडव्वा होइ अणुभागे ॥ १॥” इति ।
Jain Education International
तथैव तच्चूर्णावपि - "विहासा - अणुभागेण बंधो थोवो, उदओ अनंतगुणो, कमो अनंतगुणो ।" इति । 'मोहस्स' इति पदं पञ्चाशत्तमगाथां यावदनुवर्तते ।
'अह' इत्यादि, अथशब्दोऽनन्तरार्थकः, 'तान्' तच्छदस्य पूर्ववस्तुपरामर्शित्वात् बन्धोदयसंक्रमान् 'दले' प्रदेशविषयान् 'भणामः' भविष्यत्यर्थे "सत्सामीप्ये सहद् वा " (सिद्धहेम. ५ - ४ - १ ) इत्यनेन वर्तमाना, प्रदेशाग्रमाश्रित्य बन्धादीनामल्पबहुत्वं वच्याम इत्यर्थः ||४६ ||
For Private & Personal Use Only
www.jainelibrary.org