________________
सप्ताधिकारनिरूपणम् ]
निवृत्तिकरणाधिकारः
[ ७१
नानुपूर्व्या संज्वलनक्रोधप्रदेशाग्रं पुरुषवेदे मानादिषु च संज्वलन मानस्य तु पुरुषवेदे क्रोधे मायादिषु च संक्रमयति स्मेति चतुर्थोऽविकारः ।
'असंकमो' इत्यादि, (५) तत्र 'लोभस्य' संज्वलनलोभस्य 'असंक्रमः' संक्रमा- भावो जायते । एतदुक्तं भवति - प्राग हि संज्वलन लोभस्य प्रदेशाग्रं शेषसंज्वलनत्रिके पुरुषवेदे च संक्रमयति स्म, इतः प्रभृत्यानुपूर्वी संक्रमसद्भावेन प्रतिलोमसंक्रमा-भावात् संज्वलनलोभस्य संक्रमो न भवति । न चानुपूर्वी संक्रमनिर्देशादेव संज्वलनलोभस्य संक्रमाऽभावः सिध्यति, पुनः कुतः प्रतिपाद्यते ? इति वाच्यम्, शिष्य बुद्धिवैशद्यार्थ मन्दधीलोका - ऽनुग्रहार्थं च तत्प्रतिपादनात् इति पञ्चमो - ऽधिकारः ।
'तह आवलि० ' इत्यादि, (६) 'तथा पट्स्वावलिकासु' बन्धसमयादारभ्य पट्स्वावलिकासु व्यतिक्रान्तास्वेव 'उदीरणा' सर्वकर्मणामुदीरणा भवति । श्रयं भावः - मोहनीयकर्मण इतरकर्मणां च याः प्रकृतयो वध्यन्ते, तासां परणामावलिकानां मध्ये उदीरणा न भवति, किन्तु पट्स्वावलिकासु व्यतिक्रान्तास्त्र, अधुनातननूतनबन्धस्य तथाविधस्वभावत्वसंभवात् । इतः पूर्वं तु बद्धदलं बन्धावलिकायां व्यतिक्रान्तायामुदीरणायामायाति स्म । न्यगादि च कषायप्राभृतचूर्णी - "छमु आवलियासु गदासु उदीरणा णाम किं भणिदं होइ ? विहासा- जहा णाम समयपबद्धो बडो आवलियादिक्कतो सक्को उदीरेदुमेपमंतरादो पढमसमयकदादा पाए जाणि कम्माणि बज्झति मोहणीयं वा मोहणीयवज्जाणि वा, ताणि कम्माणि छसु आवलियासु गदासु सक्काणि उदीरे, ऊणिगासु सु आवलियासु ण सक्काणि उदीरेदु । एसा सु आवलियासु गदासु उदीरणा त्ति सण्णा ।" इति । षष्ठोऽधिकार | "संढवे खवण" इत्यादि, (७) 'पढवेद क्षपणा च चकारः समुच्चये, `पण्ढवेदस्य–नपुंसकवेदस्य क्षपणा - विनाशनं प्रवर्तते । एतदुक्तं भवति —— अन्तरकरणे कृते नपुंसक वेदं क्षपयितुमुपक्रमते । यदुक्तं सप्ततिकाचूर्णो - "अंतरं करेत्त नपुंरागवेयं खवेतुमाहवेति ।" क्षपणाविधिश्चायम्- प्रथमसमये नपुंसकवेदस्य स्तोकं दलं पुरुषवेदे निक्षिप्य क्षपयति, द्वितीयसमये ऽसंख्येयगुणं प्रक्षिप्य क्षपयति, ततोऽपि तृतीयसमये ऽसंख्येयगुणं निक्षिप्य क्षपयति । एवं प्रतिसमयमसंख्येयगुणक्रमेण नपुंसकवेददलं पुरुषवेदे प्रक्षिप्य क्षपयति । इति सप्तमोऽधिकारः । इत्येते ' कृतान्तराणां' कृतं - निष्पादितम् अन्तरम् - अन्तरकरणं यैः क्षपकैः, ते कृतान्तराः, तेषां सप्त- सप्तसंख्या अधिकारा युगपत् प्रवर्तन्ते, न तु व्यवधानेनेत्यर्थः । उक्त च कषायप्राभृतचूण- ताधे चेव णवं सयवेदस्स अजुत्तकरणसंकामगो । मोहणीयस्स संखेज्जवस्सडिदिगो बंधो। मोहणीयस्स एगट्ठाणिया बंधोदया । जाणि कम्माणि बज्झति, तेसिं हसु आवलियासु गदासु उदीरणा । मोहणीयस्स आणुपुव्वीसंकमो । लोहसंजलणस्स असंकमो । एदाणि सत्त करणाणि अंतरदुसमयकदे आराणि ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org