________________
७० ]
खगढी
तथाSSत्रलिकासु षट्सुदीरणा षण्ढवेदक्षपणा च । कृताऽन्तराणां सप्ताधिकारा युगपत् प्रवर्तन्ते || ४ || इति पदसंस्कारः |
'मोहस्स' इत्यादि, (१) 'मोहस्य' मोहनीय कर्मण: ' संख्यवर्षाः ' संख्येयवर्षप्रमितो 'बन्धः' स्थितिबन्धो भवतीति शेषः । इदमुक्तं भवति -- इतः पूर्वमन्तरकरणसमाप्तिं यावत् सानामपि कर्मणां स्थितिबन्धो - Sसंख्येयवर्पप्रमाणो भवति स्म, अतः प्रभृति मोहनीयस्य संख्यातवार्षिकः स्थितिबन्धो जायते स च पूर्वपूर्वत उत्तरोत्तर: संख्येयगुणहीनो भवति, बन्धस्य संख्येयवार्षिकत्वभवनात्, न तु पूर्वत्रद संख्येयगुणहीनः, द्वितीय स्थितिबन्धस्याऽन्तमुहूर्तमात्रत्वप्रसङ्गात् । शेषकर्मणां तु पूर्ववदसंख्येयवर्ष प्रमाणः स्थितिबन्धो भवन्नुत्तरोत्तरो ऽसंख्येयगुणहीनो भवतीति प्रथमो ऽधिकारः ।
'इग॰' इत्यादि, एकस्थानको च बन्धोदयौ, चकारः समुच्चयार्थकः, ततश्चाऽयमर्थः(२) इतः प्रभृति मोहनीयकर्मण एकस्थानको ऽनुभागो बध्यते, प्राग् हि द्विस्थानको बध्यते स् द्वितीयो ऽधिकारः । (३) प्राग् मोहनीयस्य द्विस्थानको ऽनुभागोदय आसीत्, इतः प्रभृति मोहयस्यैकस्थानको नुभागोदयो जायते इति तृतीयो ऽधिकारः ।
[ गाथा-४४-१५
1
'तस्सेव' इत्यादि, (४) 'तस्यैव' मोहनीयस्यैव 'आनुपूर्वी संक्रमणम्' आनुपूर्व्या- परिपाट्या संक्रमणम् -संक्रमो भवति । तथाहि - अन्तरकरणक्रियासमाप्त्यनन्तरं नपुंसक वेदस्य स्त्रीवेदस्य च दलं पुरुषवेदे संक्रमयति, ना - ऽन्यत्र । तथा पुरुषवेद- हास्यपटक रूप सप्तप्रकृतीनां दलं संज्वलन - क्रोधे संक्रमयति, नान्यत्र । यभाणि कषायप्राभृते
"संहृदि पुरिसवेदे इत्थोवेदं णव सयं चेव ।
सत्तेव णोकसाये णियमा कोहम्हि संहृहदि || १ ||" इति ।
तथैव तच्चूर्णावपि -- "ए दिस्से तदियाए गाहाए विहासा, तं जहा - इत्थीवेदं व' रायवेदं च पुरिसवेदे संछुहृदि, ण अण्णत्थ । सत्तणोकसाये कोहे संछुहृदि, पण अण्णत्थ ।" इति । तथा संज्वलनक्रोधदलं संज्वलनमाने संक्रमयति, संज्वलनमानस्य प्रदेशाग्रं संज्वलनमायायां संक्रमयति, संज्वलनमायाया दलं संज्वलनलोभे संक्रमयति । उक्तं च कषायप्राभृते
Jain Education International
"कोहं च छुहइ माणे माणं मायाए णियमसा छुहइ । मागं च छुह लोहे पडिलोमो संकमो णत्थि || १ ||" इति । अनेन क्रमेण मोहनीयकर्मणः प्रदेशाग्रं संक्रमयति, तेनाऽऽनुपूर्वी संक्रम उच्यते । प्राक्त्व-
For Private & Personal Use Only
www.jainelibrary.org