SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ दलनिक्षेप निरूपणम् ] निवृत्तिकरणाधिकारः [ ६६ बध्यमानोदय मानपर प्रकृतिप्रथमस्थितौ एव निक्षिपति, तस्या उदयरहितत्वेन तत्प्रथम स्थित्यमा - चात् । तथा-ऽबाधामुल्लङ्घया नुत्कीर्यमाणायां स्वद्वितीय स्थितौ बध्यमानपरप्रकृति सत्कद्वितीयस्थितौ च प्रक्षिपति । यथा क्रोधोदयारूढो मानादीनामन्तरकरणत उत्कीर्यमाणप्रदेशाग्रं क्रोधपुरुषवेदप्रथमस्थितौ प्रक्षिपति, तथा वाधामतिक्रम्यानुत्कीर्यमाणायां स्वद्वितीयस्थितौ बध्यमानपुरुषवेदक्रोधादिरूपपरप्रकृतीनां द्वितीयस्थितौ च प्रक्षिपति । (३) यस्याः प्रकृतेरुदयो विद्यते, बन्धश्च न भवति, तस्या अन्तरकरणत उत्कीर्यमाणदलं स्वप्रथमस्थितौ बध्यमानोदय मानपरप्रकृतिसत्कप्रथमस्थितौ च प्रक्षिपति, तथा वाधामुल्लङ्घया-S नुत्कीर्यमाणायां बध्यमानपरद्वितीयस्थितौ च प्रक्षिपति, न तु स्वद्वितीयस्थितौ तस्याश्रबध्यमानत्वेन स्वस्थाने उद्वर्तनाभावात् । यथा स्त्रीवेदक्रोधोदयारूढः स्त्रीवेदस्याऽन्तरकरणत उत्कीर्यमाणदलिकं स्वप्रथमस्थितौ क्रोधप्रथम स्थितौ च प्रक्षिपति, क्रोधस्य बध्यमानत्वे सत्युदयमानत्वात्, -तथा-वाधामतिक्रम्याऽनुत्कीर्यमाणायां पुरुषवेदक्रोधादीनां द्वितीयस्थितौ प्रक्षिपति । (४) यस्याः प्रकृतेरुदयो न विद्यते, ना-ऽपि बन्धः, तस्या अन्तरकरणत उत्कीर्यमाणदलं सबन्धोदय-परप्रकृतिप्रथमस्थितौ एव प्रक्षिपति, तस्या उदयरहितत्वेन तत्प्रथमस्थित्यभावात्, तथा-s बाधां विमुच्यनुत्कीर्यमाणायां बध्यमानपरद्वितीयस्थितौ एव प्रक्षिपति, न तु स्वद्वितीयस्थितौ, तस्या अवध्यमानत्वेन स्वस्थाने उद्वर्तनाभावात् । यथा पुरुषवेदोदयारूढः नपुंसकवेदस्याऽन्तरकरणत उत्कीर्यमाणं दलं पुरुषवेदादीनां प्रथमस्थितौ अवाधामतिक्रम्य चाऽनुत्कीर्यमाणायां पुरुषaaraai द्वितीयस्थितौ प्रक्षिपति । पश्यन्तु पाठका यन्त्रकाणि ७-८-६ | इति । । ४३ । । अन्तरकरणत उत्कीर्यमाणप्रदेशानां निक्षेपमभिधायाऽधुना निष्पादिताऽन्तरकरणानां क्षपकारणां वक्ष्यमाणाः सप्ताऽधिकारा युगपत् प्रवर्तन्ते तान् व्याजिहीर्षु राह मोहस्स संखवरिसा बंधो इगठाणिआ य बंधुदया । तस्सेव प्रपुव्वी संकमणमसंक्रमो य लोहस्स ॥ ४४ ॥ ( गीतिः ) तह आवलिंगासु बसु उदीरणा संढवेयखवणा य । कयअंतराण सत्त - हिगारा जुगवं पयट्टंते ॥४५॥ मोहस्य संख्यवर्षा बन्ध एकस्थानिकौ बन्धोदयौ । तस्यैवाऽऽनुपूर्वी संक्रमणमसंक्रमच लोभस्य ॥ ४४ ॥ *यद्यप्युदयरहितानां प्रकृतीनामावलिकामात्रा प्रथम स्थितिर्भवति, तथाप्युदयरहित प्रकृतीनामुदयाकाय दलनिक्षेपो न संभवति, अतस्तत्प्रथमस्थित्यभावादित्युक्तम् । एवमग्रे ऽपि यथास्थानं भावनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy