________________
aaraढी
[ गाथा- ४३
मायाप्रथम स्थितितो लोभोदयेन क्षपकश्रेणिं समधिगतस्य लोभस्य प्रथमस्थिति: संख्येयaभागेन विशेषाधिका भवति, संख्येयतमभागश्च मायाक्षपण | कालमितो - वसेयः । एतत्सर्वमग्रे कषायनानात्वे व्यक्ती भविष्यति ।। ४२ ।।
६८ ]
नन्वेकचत्वारिंशत्तमगाथायां त्रयोदशप्रकृतीनामन्तरकरणमन्तर्मुहूर्त प्रमाणमध्यम स्थितिगतदलिकाऽभावसम्पादनलक्षणं प्रतिपादितम् । तत्राऽन्तमुहूर्तप्रमाणस्थितौ दलिका-भावं सम्पादयंस्तत्स्थितिगतदलं कुत्र निक्षिपति ? इत्यत आह
सुयाणं पयडीणं पढमठिईए खिवेइ उक्किण्णं । दलिअं बंधंतीण बाहुवरिमवीयगठिईए ॥ ४३ ॥
सोदयानां प्रकृतीनां प्रथमस्थितौ क्षिपत्युत्कोर्णम् । दलिकं बध्यमानानामबाधोपरितनद्वितीयस्थितौ ।। ४३ ।। इति पदसंस्कारः ।
'दया' इत्यादि, 'सोदयानाम्' उदयेन सह वर्तन्ते इति सोदयाः "सहार्थस्तेन" (सिद्धहे० ३-१-२४) इत्यनेन बहुव्रीहिसमासः, तासाम्, उदयवतीनामित्यर्थः, प्रकृतीनां प्रथमस्थितौ 'उत्कीर्णम्' अन्तरकरणत उद्धरितं दलिकं 'क्षिपति' निक्षिपति | 'बंधंतीण' इत्यादि, बध्यमानानां प्रकृतीनामनुत्कीर्यमाणायामवाधोपरितन द्वितीयस्थितौ अन्तरकरणत उत्कीर्ण दलिकमुद्वर्तनाकरणेन प्रक्षिपति, उद्वर्तनायामवाधाया अतीत्थापनत्वेन तत्र दलिकं न प्रक्षिपति । उक्तं च कषायप्राभृतचूर्णो - " जाओ अन्तरद्विदोओ उक्कोरंति, तासिं पदेसग्गमुक्कीरमाणियासु द्विदोसु ण दिज्जदि । जासि पयडोणं पढमट्ठिदो अत्थि, तिस्से पढमट्ठिदीए जाओ संपहि विदीओ उक्कीरंति, तमुकोरमाणगं पदेसग्गं संछुहृदि । अध जाओ बज्झति पयडीओ तासिमाबाहमधिच्छियूण जा जहणिया णिसेगठिदी रामादिं काढूण बज्झमाणियासु ठिदीसु उक्कड्डिजदे ।” इति । भावार्थः पुनरयम् -
Jain Education International
(१) यस्याः प्रकृतेर्वन्ध उदयश्च विद्येते, तस्या अन्तरकरणत उत्कीर्यमाणदल स्वप्रथमस्थितौ बध्यमानोदयमानानां परप्रकृतीनां प्रथमस्थितौ च प्रक्षिपति, तथाऽबाधाकालमतिक्रम्याऽनुत्कीर्यमाणायां स्वकीयद्वितीय स्थितौ बध्यमान परप्रकृतिसत्कद्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदारूढः पुरुषवेदस्या-ऽन्तरकरणत उत्कीर्यमाणदलं पुरुषवेदप्रथमस्थितौ बध्यमानोदयमानक्रोधादिरूपपरप्रकृतीनां प्रथमस्थितौ च प्रक्षिपति, तथाऽबाधामतिक्रम्या - ऽनुकीर्यमाणायां पुरुषवेदद्वितीयस्थितौ बध्यमानक्रोधादीनां च द्वितीयस्थितौ प्रक्षिपति ।
(२) यस्याः प्रकृतेर्बन्धो विद्यते, उदयश्च न भवति, तस्या अन्तरकरणत उत्कीर्यमाणदलं
For Private & Personal Use Only
www.jainelibrary.org