________________
प्रथम स्थितिनिरूपणम् ]
अनिवृत्तिकरणाधिकारः
[ ६७
'भिन्न०' इत्यादि, अन्तरकरणे क्रियमाणेऽधस्ताद् या स्थितिर्विमुच्यते, सा प्रथमस्थितित्वेन व्यपदिश्यते । तत्र 'उदितानां' उदयवतीनां प्रकृतीनां 'भिन्नमुहूर्तम्' अन्तर्मुहूर्त प्रथमस्थितिभवति । 'परासाम्' अनुदितानां - उदयरहितानां प्रकृतीनाम् 'आलिका' आवलिकाप्रमाणा प्रथमस्थितिर्भवति । अयं भावः - चतुर्षु संज्वलनक्रोधादिष्वन्यतमस्य यस्य संज्वलनस्योदयः, त्रयाणां च वेदानां पुरुषादीनामन्यतमस्य यस्य वेदस्योदयः, तयोः कपायवेदयोरन्तमुहूर्त मात्रा प्रथम स्थितिभवति । शेषाणामेकादशप्रकृतीनां प्रथम स्थितिरावलिकाप्रमाणा भवति, यथा पुरुषवेदोदयारूढजीवस्य पुरुषवेदस्य प्रथमस्थितिरन्तमुहूर्तमात्रा, इतरवेदद्वयस्य त्वावलिकामात्रा । एवं स्त्रीवेदोदयेन प्रतिपन्नस्य स्त्रीवेदस्य प्रथमस्थितिरन्तमुहूर्तमात्रा, अन्य वेदद्वयस्य पुनरावलिकामात्रा, तथैव नपुसंक वेदोदयेन समारूढस्य नपुंसक वेदस्य प्रथमस्थितिरन्तमुहूर्तमिता, अन्य वेद द्विकस्य त्वावलिकामात्रा | तथा क्रोधोदयेन प्रतिपन्नस्य जन्तोः संज्वलनक्रोधस्य प्रथमस्थितिरन्तमुहूर्तमिता शेषसंज्वलन - त्रिकस्य पुनरावलिकामात्रा, मानोदयेनारूढस्य जन्तोः संज्वलन मानस्यान्तर्मुहूर्तमात्रा प्रथमस्थितिः, शेषसंज्वलनत्रयस्य त्वावलिका प्रमिता । एवं मायालो भयोरपि वक्तव्या । हास्यपट्कस्य त्वावलि - कामात्रैव प्रथमस्थितिर्भवति, उदयरहितत्वात्तस्य ।
नूयमानानां सर्वासां प्रकृतीनां किं प्रथम स्थितिस्तुल्या भवति, उत विषमा ? इत्यत आह- 'संढ०' इत्यादि, 'पण्ठस्त्रियो:' नपुंसक वेदस्त्रीवेदयोः प्रथम स्थितिः 'समा' मिथः समाना 'अल्पा' स्तोका च भवति, 'पुरुषादीनां' पुरुषवेदक्रोधमानमायालोभरूपाणां प्रथमस्थितिर्विशेषाधिका भवति । तथाहि - एको नपुंसक वेदोदयेन क्षपकश्रेणिं प्रतिपद्यते, अन्यस्तु स्त्रीवेदोदयेन, तत्र प्रथमजन्तोनपुंसक वेदस्य यावती प्रथमस्थितिर्भवति तावत्येव द्वितीयजन्तोः स्त्रीवेदस्य प्रथमस्थितिर्भवति, सा च स्तोका, ततः पुरुषवेदोदयेन क्षपकश्रेणिमारूढस्य जीवस्य पुरुषवेदस्य प्रथमस्थिति: संख्येयतमभागेन विशेषाधिका भवति, संख्येयतमभागश्च वक्ष्यमाणहास्यषट्कक्षपणाकालमात्र बोद्धव्यः, एतच्चाग्रे वेदनानात्वे स्फुटीभविष्यति ।
पुरुषवेदस्य प्रथमस्थितितः क्रोधोदयेन क्षपकश्रेणि समारूढस्य क्रोधस्य प्रथमस्थितिः संख्येयतमभागेन विशेषाधिका भवति, संख्येयतमभागच वच्यमाणाऽश्वकर्णकरणाद्धाकिट्टिकरणाद्धामात्रो ज्ञेयः ।
क्रोधप्रथम स्थितितो मानोदयेन क्षपकश्रेणिमधिगतस्य मानस्य प्रथमस्थितिः संख्येयभागेन विशेषाधिका भवति, संख्येयतमभागश्च वक्ष्यमाणक्रोधकिट्टिक्षपणकालप्रमाणो निश्चेतव्यः । मानप्रथम स्थितितो मायोदयेन क्षपकश्रेणिं प्रतिपन्नस्य मायायाः प्रथम स्थिति: संख्येयभागेन विशेषाधिका भवति, संख्येयतमभागश्च वक्ष्यमाणमानक्षपणाकालप्रमितोऽधिगन्तव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org