________________
arrar
[ गाथा-४२
प्रतिपादयति- 'तो'
इत्यादि, 'ततः '
अथा-निवृत्ति करणे न्यं क्रियाविशेषं बन्धे देशघातिर सभवनात् स्थितिखण्ड सहस्रेषु संख्येयेषु गतेषु 'त्रयोदशप्रकृतीनां' संज्वलन चतुष्क- नवनोकषायरूपाणां प्रकृतीनाम् ' अन्तरम्' अन्तरकरणम्-अन्तर्मुहूर्तमात्रस्थितौ दलिकाभावलक्षणं 'स्थितिबन्धकालेन ' एकवचननिर्देशाद् एकस्थितिबन्धाद्धया 'करोति' अधस्तादुपरि च कियतीञ्चित् स्थितिं विमुच्याऽन्तर्मुहूर्तमितमध्यमस्थितेर्निषेकाणां दलिकशून्यत्वमेकस्थितिबन्धाद्धया सम्पादयतीत्यर्थः । उक्तं च कषायप्राभृतचूर्णो- "तदो हिदिखण्डयस हस्सेसु गदेसु अण्णं द्विदिखंडयमण्णमणुभागखण्डयमणो हिदिबंधो अंतरद्विदीओ च उक्कीरिडु चत्तारि वि एदाणि करणाणि समगमाढतो । चण्हं संजलणाणं णवण्हं णोकसायवेदणोप्राण मेदेसि तेरसहं कम्माणमंतर, सेसाणं कम्माणं णत्थि अंतरं ।" इति । तथैव सप्ततिकाचूर्णावपि - "तओ अंतोमुत्तणं णवण्हं नोकसायाणं चउण्हं संजलणाणं च अंतरकरणं करेति । " इति ।
--
६६ ]
वीर्यान्तरायस्य
सत्सु
भावार्थः पुनरयम् - अनन्तानुबन्धिचतुष्क-मिथ्यात्व- सम्यङ् मिथ्यात्व सम्यक्त्वमोहनीयलक्षणस्य दर्शन सप्तकस्या- प्रत्याख्यानावरणचतुष्क- प्रत्याख्यानावरणचतुष्कलक्षणकपायाष्टकस्य च प्राग् नष्टवेन वीर्यान्तरायस्य बन्धे देशघातिरसभवनात्स्थितिखण्डसहस्त्रेषु गतेषु मोहनीयस्या - Sवशिष्यमाणसंज्वलनचतुष्क- नवनोकपायरूपत्रयोदशप्रकृतीनामन्तरकरणं कर्तुमारभते, तदानीं चाऽभिनवं स्थितिबन्धं स्थितिघातं रसघातं चारभते, अधस्तादुपरि च स्थितिं विमुच्य मध्यस्थाया अन्तर्मुहूर्तप्रमाणस्थितेर्दलानि प्रतिसमय मुत्रिति । एकस्थितिबन्धकालेना - ऽन्तमुहूर्त प्रमाणां स्थितिं सर्वथा दलिकाभाववतीं करोति, तदानीं च स्थितिबन्धाद्धया सह स्थितिघाताद्धा रसघाताद्वा च निष्ठां यातः, किन्तु तावता कालेन रसघाताद्वाः सहस्राणि गच्छन्ति, एकस्मिन् स्थितिघाते रसघातानां सहस्रत्वप्रतिपादनात् । उक्त च कषायप्राभृतचूर्णी - "संपहि अवदिअणुभागखंडयसहस्सेसु गदेसु अण्णमणुभागखंडयं जो च अंतरे उनकीरिज्जमाणे हिदिबंधो पesो जं च ठिदिखंडयं जाव अंतरकरणडा, एदाणि समगं गिट्ठाणियमाणाणि णिट्ठिदाणि ।” इति ॥४०-४१ ॥
अन्तरकरणं कुर्वन्नधस्तात् कियतीं स्थितिं परित्यजति ? इत्यत आह
भिन्नमुहुत्तं उदियाणं श्रावलिया पराण पढमठिई ।
संढत्थी समाप्पा पुरिसाई कम सो विसेसहिया ॥ ४२ ॥ (गीतिः)
Jain Education International
भिन्नमुहुर्तमुदितानामावलिका परासां प्रथमस्थितिः ।
षण्ढत्रियोः समाऽल्पा पुरुषादीनां क्रमशो विशेषाऽधिका ।। ४२ ।। इति पदसंस्कारः ।
For Private & Personal Use Only
www.jainelibrary.org