________________
६४ ]
[ गाथा- ४०-४१
स्थितिघातसहस्रेषु त्रजितेषु सत्सु 'लाभावधिद्विककर्मणां' पदैकदेशेन पदसमुदायस्य गम्यमानत्वात् लामा - ऽन्तराया - ऽवधिज्ञानावरणा-ऽवधिदर्शनावरण प्रकृतीनां रसबन्धो देशघाती भवति, एतेषां कर्मणामनुभागो देशघाती बध्यते इत्यर्थः । यदवादि कषायप्राभृतचूर्णो – “तदो ठिदिखंडयपुधत्तेण ओहिणाणावरणीय ओहिदंसणावरणीय-लाहंतरायाणमणुभागो बंघेण देशघादी जादो ।" इति ।
निवृत्तिकरणाधिकारः
'तो' इत्यादि, 'ततः' अवधिज्ञानावरणादीनां बन्धे देशघातिरसभवनात् स्थितिखण्डपृथक्त्वे गते सति 'श्रुताऽचक्षुर्भोगानां ' श्रुतज्ञानावरणा-ऽचक्षुर्दर्शनावरण-भोगान्तरायाणां कर्मणां रसबन्धो देशघाती भवति । न्यगादि च कषायप्राभृतचूण - "तदो ठिदिखंडय धत्तेण सुदणाणावरणीय अचक्खुदंसणावरणीय-भोग तराइयाणमणुभागो बंधेण देशघादी जादो ।" इति ।
'ततः ' श्रुतज्ञानावरणादीनां बन्धे देशवातिरसभवनात् परं स्थितिघातपृथक्त्वे ऽतीते 'चक्षुषः, चक्षुर्दर्शनावरणस्य रसबन्धो देशघाती भवति । उक्तं च कषायप्राभृतचूण - "तदो ठिदिखंडयपुधन्तेण चक्खुदंसणावरणीयस्स अणुभागो बंधेण देशघादी जादो ।" इति । 'अर्थ' चक्षुर्दर्शनावरणस्य देशघातिरसबन्धभवनानन्तरं स्थितिघातपृथक्त्वे गते सति 'उपभोगमत्योः' उपभोगान्तराय-मतिज्ञानावरणयो रसबन्धो देशघाती भवति । उक्त च कषायप्राभृतचूर्णौठिदिांडयपुत्ते आभिणिबोहियणाणावरणीय परिभोग तराइयाणमणुभागो बंधेण देशघादी जादो ।" इति ।
'तो' इत्यादि, 'ततः' उपभोगान्तराय - मतिज्ञानावरणयो रसबन्धस्य देशघातित्वभवनात् स्थितिखण्डपृथक्त्वे गते 'वीर्यस्य' वीर्यान्तरायस्य रसबन्धो देशघाती भवति । 'तु' तुः पादपूरणे । उक्तं च कषायप्राभृतचूर्णी- "तदो ठिदिखंडयपुधतेण वीरियंतराइयस्स अणुभागो बंधे देघादी जादो ।" इति ।
न च दानान्तरायादीनामनुभागबन्धस्य देशघातित्वकरणेऽयं क्रमः कथमवसीयते इति वाच्यम्, क्षपकाऽनिवृत्तिकरणेऽनुभागबन्धाल्पबहुत्वक्रमस्य तथाविधत्वेनाऽस्य क्रमस्योपपत्तौ विरोधाभावात् । तथाहि क्षपकानिवृत्तिकरणे विवक्षित कालावच्छेदेन मनः पर्यवज्ञानावरणदानान्तराययोर्यावाननुभागो बध्यते, ततोऽनन्तगुणोऽनुभागो ऽवधिज्ञानावरणा-ऽ-वधिदर्शनावरणलाभान्तरायाणां बध्यते, स्वस्थाने तु मिथस्तुल्यः । ततोऽनन्तगुणः श्रुतज्ञानावरणा चक्षुर्दर्शनावरण-भोगान्तरायाणामनुभागबन्धो भवति, स्वस्थाने तु मिथः सदृशः । ततश्चक्षुदर्शनावरणस्याऽनन्तगुणो ऽनुभागबन्धो भवति, ततोऽनन्तगुणो मतिज्ञानावरणोपभोगान्तराययोः, स्वस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org