________________
देशघातिरसबन्धः ] अनिवृत्तिकरणाधिकारः
[६३ चेव खवेति,जाहे तेसिं अट्ठण्हं कसायाणं संखेजतिभागं खवेमाणो गतो भवति,ताहे नामस्स कम्मस्स इमाओ तेरस पयडीओ खवेइ । तं जहा-निरयगइनामं तिरियगइनामं एगिदियजातिनामं बेइदिय तेइंदिय० चउरिंदियजातिनामं निरयाणुपुवोनामं तिरिक्खजोणियाणुपुत्वोनाम अप्पसत्थविहायोगतिनाम थावरनामं सुहुमनामं साहारणनामं अपज, तहा दरिसणावरणीयस्स इमाओ तिन्नि पयडीओ,तं जहानिद्दानिद्दा पयलापयला थीणागिडोय । तासिं अट्ठण्हं सेसं तं पि ।" तथैव बृहत्कल्पकृतावप्युक्तम् । तत्त्वं पुनः केवलिनो विदन्ति ।
___ 'तो' इत्यादि, 'ततः' षोडशप्रकृतिक्षपणातः स्थितिघातपृथक्त्वे गते 'बध्नाति देशघातीनि' दानान्तरायमनःपर्यवज्ञानावरणादीनि वक्ष्यमाणानि कर्माणि क्रमेण देशघातीनि बध्नाति, अश्रेणिगता अशेषजनास्तानि कर्माणि सर्वघातीन्येव बध्नन्ति, उपशमश्रेणौ क्षपकश्रेण्यां वा महात्मानो विशुद्धिमाहात्म्येन तानि कर्माणि देशघातीनि बध्नन्तीति भावः ॥ ३६॥
ननु कानि तानि कर्माणि यानि श्रेणौ देशघातीनि बध्यन्ते ? इत्यत आहदाणंतरायमणपजवाण तो लाभप्रोहिदुगकम्माणं । तो सुप्रअचक्खुभोगाण तो चक्खुस्स अहुवभोगमईगं।४०। (आर्यागीतिः) तो वीरियस्स रसबंधो हवए देसघाई उ। तो तेरसपयडीण-ऽन्तरं कुणेइ टिइबंधकालेण॥४१॥(उद्गीतिः)
दानान्तराय-मनःपर्यवयोस्ततो लाभाऽ-वविद्विककर्मणाम् । ततः श्रुता-चक्षुभॊगानां ततश्चक्षुषोऽथोपभोगमत्योः ॥ ४० ॥ ततो वीर्यस्य रसबन्धो भवति देशघाती तु।
ततस्त्रयोदशप्रकृतीनामन्तरं करोति स्थितिबन्धकालेन ॥ ४१ ।। इति पदसंस्कारः । 'दाणं०' इत्यादि, स्थावरादिषोडशप्रकृतिक्षपणातः परं स्थितिघातसंख्यातसहस्रेषु गतेषु सत्सु 'दानान्तरायमनःपर्यवयोः' 'रसबंधो हवए देसघाई' इति वक्ष्यमाणं पदत्रयं सर्वत्र योज्यम् । तेना-ऽयमर्थः-दानान्तरायमनःपर्यत्रज्ञानावरणयोः 'रसवन्धो' अनुभागबन्धो देशघाती 'भवति' जायते, अनयोरनुभागो देशघाती बध्यत इत्यर्थः। उक्तं च कषायप्राभूतचूर्णी-"तदो ठिदिखंउयपुधत्तेण मणपजवणाणावरणीयदाणंतराइयाणं च अणुभागो देसघादी जादो।” इति ।
'तो' इत्यादि, 'ततः' दानान्तराय-मनःपर्यवज्ञानावरणसत्कदेशघातिरसबन्धभवनात् संख्यातेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org