________________
खबगसेढी
[ गाथा-३६ ततः परं कपायाष्टकस्यावलिकामानं स्थितिसत्कर्म स्तिबुकसंक्रमेण प्रतिसमयं संक्रम्य कपायाष्टकं सर्वात्मना निर्लेपयति । स्थितिखण्डसहस्रषु च गतेषु सत्सु स्थावरादिषोडशप्रकृती: क्षपयितुमारभते, तद्वक्तुकाम आह
तो थावरतिरिनिरयायवद्गसाहारणेगविगलाई। थीणद्धितिगं य खवइ तो बंधइ देसघाईणि ॥३६॥ ततः स्थावरतिर्यढ निरया-ऽऽतपद्विकसाधारणकविकलानि ।
स्त्यानचित्रिकं च क्षपयति ततो बध्नाति देशघातीनि ॥३६॥ इति पदसंस्कारः । ___ 'तो' इत्यादि, 'ततः' कषायाष्टकसत्कक्षपणातः परं संख्यातेषु स्थितिघातसहस्रषु गतेषु'स्थाचरतिर्यनिरया-ऽऽ-तपद्विकसाधारणकविकलानि' स्थावरतिर्यनिरयाऽऽतपद्विकमित्यत्र द्विकशब्दः प्रत्येकं सम्बध्यते । ततश्चायमर्थः-स्थावरद्विकम्-स्थावर-सूक्ष्मरूपम्, तिर्यद्विकम्-तिर्यगगति-तिर्यगानुपूर्वीलक्षणम्,निरयद्विकं-नरकगति-नरकाऽऽनुपूर्वीस्वरूपम्,अातपद्विकम्-आतपोद्योताख्यम्,साधारण-साधारणनामकर्म च एकविकलानि' एकेन्द्रियजाति-द्वीन्द्रियजाति-त्रीन्द्रियजाति-चतुरिन्द्रियजातिरूपाणि च, तत इतरेतरद्वन्द्वसमासः, 'स्त्यानचित्रिक' निद्रानिद्रा-प्रचलाप्रचला-स्त्यानद्धिलक्षणं 'च' चकारः समुच्चयार्थकः 'क्षपयति' अनन्तरोक्तषोडशप्रकृती शयितुमुपक्रमते । उक्त च कषायप्राभतचूर्णी-"तदो ठिदिखंउयपुधत्तण णिहाणिद्दा-पयलापयला-थीणगिडीणं णिरयगदितिरिक्खगदिपाओग्गणामाणं संतकम्मरस संकामगो ।” स्थितिखण्डपृथक्त्वे गते आवलिकाप्रमाणं सत्कर्म विमुच्य शेषं सर्व षोडशप्रकृतीनां स्थितिसत्त्वं विनाशयति, तदप्यावलिकामानं स्थितिसत्त्वं स्तिबुकसंक्रमेण संक्रम्य निरुक्तषोडशप्रकृतीः सर्वथा निर्लेपयति । उक्तं च कषायप्राभती -"तदो ठिदिखंउयपुधत्तेण अपच्छिमे ठिदिखंडए उक्किपणे एदेसिं सोलसएहं कम्माणं ठिदिसंतकम्ममावलियम्भंतरं सेसं।" इति । एवं कर्मप्रकृतिचूर्णावपि"निरयगतितिरियगति-एगिदियजाति जाव चोरिंदिजाति णरयाणुपव्वि तिरिया
पुव्वि आयावं उज्जोवं थावरं सुहुम साहारणं एए तेरस, थोणगिद्धितिगेण सह सोलस उवरि' ति अट्ठसु कसातेसु खविएसुवरि संखेज्जेसु हितिखंडेसु गतेसु सोलस वि जुगवं णरसंति ।" इति । एतासां पोडशप्रकृतीनां चरमप्रक्षेपे जघन्यस्थितिसंक्रमो भवति, स च पन्योपमा-ऽसंख्येयभागप्रमाणो ज्ञातव्यः । यथागर्म गुणितकर्मा शस्य चोत्कृष्टप्रदेशसंक्रमो भवति । सप्ततिकाचूर्णिकारादिभिः कषाया-ऽष्टकस्थावरादिषोडशप्रकृतीनां क्षपणा वित्थं प्रदर्शिता
अणियटिबायरे थोणगिडितिग-णिरयतिरियणामाउ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org