SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [ ५६ कषायाष्टकक्षपणा] अनिवृत्तिकरणाधिकारः कालेजातो कम्मद्वितीतोबज्झमाणहितीओ समयादिहीणातो तातो हितीतो उदीरणं एन्ति, उवरिमाउ न इंति उदोरणं ।” इति । इतः परं सर्वत्रा-ऽसंख्येयसमयप्रबद्धोदीरणा ज्ञातव्या । अल्पबहुत्वं चेत्थं प्ररूपयितव्यम्, तदानी प्रदेशोदीरणा स्तोका भवति, ततः प्रदेशोदयोऽसंख्येयगुणो भवति,उदीरणाया असंख्येयसमयप्रबद्धत्वेऽप्युदयस्ततोऽसंख्येयगुणो भवतीत्यर्थः । इदन्त्ववधेयम्-सर्वत्र क्षपकश्रेणौ तद्वयतिरिक्तावस्थायां चोदीरणादलिकत उदयदलिकमसंख्येयगुणं भवति । सम्प्रत्यष्टकपायाणां क्षपणां भणितुकाम आह—'तो' इत्यादि, 'ततः' असंख्येयसमयप्रबद्धोदीरणातः संख्यातेषु स्थितिखण्डसहस्रषु गतेषु 'अष्टकपायान्' अप्रत्याख्यानप्रत्याख्यानावरणचतुष्कलक्षणान् 'क्षपपति' बध्यमानासु परप्रकृतिषु संक्रमयन् क्षपयितुमारभते, यद्यप्यपूर्वकरणतः प्रभृति कषायाष्टकस्य गुणसंक्रम आसीत्, किन्त्वितः प्रभृति तस्य विशेषघातो जायते, तेन तस्य क्षपणा निगद्यते । उक्तं च कषायप्राभूतचूर्णी-"तदो संखेज्जेसु ठिदिखंडयसहस्सेसुगदेसु अट्टण्हं कसायाणं संकामगो।” इति । अत्रापि 'अट्ठएहं कसायाणं संकामगो' इत्यनेनाऽष्टानां कषायाणां क्षपणायाः प्रारम्भको ज्ञातव्यः, अन्यथा तेषां संक्रमकस्तु पूर्वमपूर्वकरणेऽप्यासीत् । ततः परं संख्यातेषु स्थितिखण्डसहस्रषु व्यतिक्रान्तेष्वावलिकाप्रमाणं स्थितिसत्कर्म विमुच्य शेषं सर्वे कषायाऽष्टकं विनाशयति, तदानीं 'जहण्ण.' इत्यादि, चरमे-चरमप्रक्षेपे 'जघन्यस्थितिसंक्रमः' कपापाष्टकस्य पल्योपमाऽसंख्येयभागमितो जघन्यस्थितिसंक्रमो भवति । उक्त च कषायप्राभूतचूर्णी-"तदो अट्ठकसाया ठिदिखंउयपुधत्तेण संकामिजंति । अट्ठण्हं कसायाणं अपच्छिमठिदिखंडए उक्किण्णे तेसिं संतकम्ममावलियं पविट्ठ सेसं । xxxx अट्ठण्हं कसायाणं जहण्णटिदिसंकमो कस्स ? खवयस्स तेसिं चेव अपच्छिमहिदिखंडयं चरिमसमयसंछुहमाणयस्स जहणणयं।" इति । तथैव कर्मप्रकृतिचूर्णावपि-"सेसगाणं' ति वुत्तसेसाणंथीणगिद्वितिगतरसणामा अट्ठकसायणवणोवकसाया कोहसंजलणमाणमायासंजलणाणं-ए यासिं छत्तीसाए कम्मपगतीणं 'खवणक्कम्मेण' त्ति खवणपरिवाडिते चेव अप्पणो चरिमसंछोभे वद्यमाणो अणियटिजहण्णहिगतिसंकमसामी ।" इति । तदानीमेव शीघ्रं क्षपणायाऽभ्युत्थितस्य गुणितकर्मा शस्य जन्तोरुत्कृष्टप्रदेशसंक्रमो भवति । उक्त च कर्मप्रकृतिचूर्णी-"थीणगिद्धितिगछन्नोकसायासत्तणामअट्ठकसायाणं एतासिं चउवीसाए पगतीणं गुणितकमंसितस्स अणियहिकरणे वट्टमाणस्स उक्कोसपदेससंकमो सव्वसंकमेण लब्भति ।” इति । एवं कषायप्राभृतचूर्णावपि ।।३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy