________________
५८ ]
खत्रगसेढी
[ गाथा - ३८
ततः संख्यातेषु स्थितिखण्ड सहस्रेषु गतेष्वसंख्येयसमयप्रबद्धोदीरणा जायते, तां व्याजि -
ही राह
चरिमप्पबहुत्ता असंखखणपवद्धदीरणा होइ । तो साया खवए जहणणठिइसको चरिमे ॥ ३८ ॥
चरिमा - ऽल्पबहुत्वादसंख्यक्षरण प्रबद्धोदीरणा भवति ।
ततोऽष्टकषायान् क्षपयति जघन्यस्थितिसंक्रमश्चरमे ॥ ३८ ॥ इति पदसंस्कारः ।
1
'चरिम ० ' इत्यादि, 'चरमाल्पबहुत्वात् ' मोहनीयस्य स्थितिसचं स्तोकं ततो ज्ञानावरण-दर्शनावराऽन्तरायाणामसंख्येयगुणं ततो नामगोत्रयोरसंख्ययेगुणं ततो वेदनीयस्य विशेषाधिकमित्येवंरूपात् संख्यातेषु स्थितिखण्ड सहस्रेषु गतेषु 'असंख्यक्षण प्रवद्धोदीरणा' असंख्येय समय प्रबद्धोदीरणा 'भवति' जायते । उक्तं च कषायप्राभृतचूर्णी - "एदेण कमेण संखेजाणि ट्टिदिखंडयसहस्साणि गदाणि तदो असंखेज्जाणं समयपबद्धाणमुदीरणा ।" इति । ननु का नामा-संख्येयसमयप्रबद्धोदीरणा ? इति चेत्, उच्यते - इतः पूर्वमपकृष्टदलं पल्योपमाऽसंख्येयभागेन विभज्य तदेकभागं गुणश्रेयर्थं गृह्णाति स्म, शेषांशाऽसंख्येयबहुभागान् गुणश्रेण्युपरितननिषेकेषु निक्षिपति स्म । गुणश्रेण्यर्थं गृहीतदलमसंख्येयलोकाकाशप्रदेशमात्रेण भागहारेण भक्त्वा तदेकभागमुदयावलिकायां प्रक्षिप्य बहुभागानुदयावलिकाया उपरितनेषु गुणश्रेणिनिपेकेषु प्रक्षिपति स्म तेनैकसमय प्रबद्धसत्काऽसंख्येयभागमितं दलमुदीरणायामागच्छति स्म, इदानीं पुनगुणश्रेण्यर्थं गृहीतदलं पल्योपमा ऽसंख्येयभागेन विभज्यैकभागमुदयावलिकायां निक्षिप्य बहुभागानुदयावलिकाया उपरितनेषु गुणश्रेणिनिषेकेषु निक्षिपति । तेनेदानीमुदीरणायां दलमसंख्येयसमयप्रवद्धमात्रं वर्तते । एकसमयेन यावद्दलं बध्यते, तदेकसमयप्रबद्धमुच्यते । इतः प्रभृति क्षपकस्योदीरणायाम संख्येयसमयप्रबद्धदलमागच्छति । तस्मात् कारणाद् इयमसंख्येय समयप्रबद्धोदीरणा व्यपदिश्यते इति भावः । कर्मप्रकृतिचूर्णि कारादिमतेना-ऽसंख्येयसमयप्रवद्धोदीरणा नाम यावत्यः स्थितयो बध्यन्ते, तदपेक्षया याः पूर्वबद्धाः सत्तागताः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगच्छन्ति, नान्याः । उक्तं च कर्मप्रकृतिचूर्षिकारैरुपशमनाकरणे- “जाहे पलिओवमस्त असंखेजतिभागं डितिबन्धन्ति, तम्मि
*;
* जयधवलाकारैरपि इत्थमेव व्याख्याता संख्येयसमय प्रबद्धोदीरणा । न्यगादि च तैश्चारित्रमोहोपशमनाधिकारे-"हेट्ठ। सव्वत्थेव असंखेज्जलोगपडिभागेण पयट्टमाणा उदीरणा, एहि परिणामपा हम्मेण पुव्वत्तकिरियाकला वस्सुवरि असंखेज्जाणं समयपबद्धाणमुदीरणा च पवत्तदि । दिवङ्गुणहाणीमेत्त समयपबद्धाणमोकडुणभागहारादो असंखेज्जगुणेण भागहारेण खंडिदेयखंडस्त असंखेज्जसमयपबद्ध पमाणस्सेत्युदीरणा सरूवे
Jain Education International
ये पवेसदंसणादो। इति । तथैव चारित्रमोहक्षपणाधिकारेऽपि - “ XXX X तदो परिणामप्पा हम्मेण सव्वेंस कम्माणं वेदिज्जमाणाणं असंखेज्जलोगपडिभागिया उदीरणा णस्सियूण असंखेज्जाणं समयपबद्वाणं उदीरणा पारद्वा त्ति एसो एत्थ सुत्तत्थसंगहो त्ति ।" इति ।
For Private & Personal Use Only
www.jainelibrary.org